आद्ये तिर्यगधोगतिश्च नियतं ध्याने तु रौद्रे सदा धर्म्ये देवगतिः शुभं फलमहोशुक्ले च जन्मक्षयः
समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ पवने च षोडश
वापीकूपतडागोत्सर्गविधिवर्णनम् कथयस्व महाभाग मम देवकिनंदन
वापीकूपोदकानाञ्च के मंत्राः परिकीर्तिताः
दानं किमत्र निर्दिष्टं बलयः के प्रकीर्तिताः
तडागवापीकूपानामुत्सर्गं कथयामि ते
निष्पन्ने बद्धपालीके सर्वोद्भेदविवर्जिते
तस्मिन्सलिलसंपूर्णे कार्तिके वा विशेषतः
मुनयः केचिदिच्छंति व्यतीते चोत्तरायणे
तडागपालशीर्षे तु मंडलं कारयेच्छुभम्
तोरणानि तु चत्वारि चतुर्दिक्षु विचक्षणैः
नानावर्णास्तु परितः पताकाः परिकल्पयेत् 4.127.
चतुर्हस्ता भवेद्वेदी मध्ये पञ्चकराथ वा
कदंबाश्वत्थपालाशवैकंकतमयः शुभः
न्यग्रोधबिल्वजः प्रोक्तः क्षत्रियाणां च खादिरः
बिभीतकोदुंबरजः शाकशाल्मलिसंभवः
लोकपालाष्टकं तत्र रजसा च विलेखयेत्
सावित्री सहिता कार्या पुष्पधूपैरथार्चयेत्
मेखलात्रययुक्तानि हस्तमात्राणि सर्वतः
अहतांबरसंवीताः स्रक्चन्दनविभूषिताः
इतिहासपुराणज्ञाः प्रियवाचोऽनसूयकाः
व्यंजनानि च कार्याणि होमार्थं समिधस्तिलाः 4.127.
वेद्याधिवासितानां च सुराणां होम इष्यते
इन्द्रादिलोकपालानां पूर्वादिक्रमयोगतः
द्वारेषु कलशान्दद्यात्सहिरण्यान्सपल्लवान्
सौवर्णं कारयेत्कूर्मं ताम्रेण मकरं तथा
शिशुमारजलौकाञ्च रजतेनैव कारयेत्
एषा प्रतिष्ठा नामेति मन्त्रेणामंत्रयेच्च तान्
कुंकुमेन समालभ्य पुष्पैर्धूपैः समर्चयेत्
ततो द्विजातिप्रवरः श्रपयित्वा चरुं नवम्