यथायथा भवेत्कामस्तथा तन्नामकीर्तयेत्
प्रसन्ननेत्रभ्रूचक्रशंखचक्रगदाधरम्
पीतांबरधरं कृष्णं चारुकेयूरधारिणम्
यादृशे वा मनः स्थैर्यं रूपे बध्नाति चक्रिणः 4.126.
इत्थं जपन्स्मरन्नित्यं स्वरूपं परमात्मनः
सर्वपातकयुक्तोऽपि पुरुषः पुरुषर्षभ
यथाग्निस्तृण जातानि दहत्यनिलसंगतः
जराव्याधिविहीनानां किमुत व्याधिदोषिणाम्
अत्यंतवयसा दग्धो व्याधिना चोपपीडितः
किमप्यन्योप्युपायोऽस्ति न वानशनकर्मणि
त्वयोक्तं भगवन्ध्यानं तद्ब्रूहि मम तत्त्वतः
चित्तस्यालं वनीभूतो विष्णुरेवात्र कारणम्
तिष्ठन्भुञ्जन्स्वपन्गच्छंस्तथा धावन्नितस्ततः
यं यञ्चापि स्मरन्भावं त्यजन्यन्ते कलेवरम् 4.126.
तस्मात्प्रधानमंत्रोक्तं वासुदेवस्य चिन्तनम्
पुरा मे कथितं पार्थ मार्कंडेयेन धीमता
राज्योपभोगशयनासनवाहनेषु स्त्रीगंधमाल्यमणिवस्त्रविभूषणेषु
संछेदनैर्दहनताडनपीडनैश्च गात्रप्रहारदमनैर्विनिकर्तनैश्च
सूत्रार्थमार्गणमहाव्रतभावनाभिर्बंधप्रमोक्षगतिरागतिहेतु चिन्ता
यस्येन्द्रियाणि विषयैर्न विवर्जितानि सङ्कल्पनात्मज विकल्पविकारयोगैः
आद्ये तिर्यगधोगतिश्च नियतं ध्याने तु रौद्रे सदा धर्म्ये देवगतिः शुभं फलमहोशुक्ले च जन्मक्षयः
समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ पवने च षोडश
वापीकूपतडागोत्सर्गविधिवर्णनम् कथयस्व महाभाग मम देवकिनंदन
वापीकूपोदकानाञ्च के मंत्राः परिकीर्तिताः
दानं किमत्र निर्दिष्टं बलयः के प्रकीर्तिताः
तडागवापीकूपानामुत्सर्गं कथयामि ते
निष्पन्ने बद्धपालीके सर्वोद्भेदविवर्जिते
तस्मिन्सलिलसंपूर्णे कार्तिके वा विशेषतः
मुनयः केचिदिच्छंति व्यतीते चोत्तरायणे
तडागपालशीर्षे तु मंडलं कारयेच्छुभम्