कृतस्नानः श्वेतपट्टं ब्राह्मणाय निवेदयेत्
न तस्य ग्रहपीडा स्यान्न च बंधुजनक्षयः
सूर्यग्रहे सूर्यनाम सदा मंत्रेषु कीर्तयेत् १८ य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
चन्द्रग्रहे नृप रविग्रहणे जपन्मां मंत्रैरिमैः समभिमंत्र्य शुभोदकुंभात् 4.125.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चन्द्रादित्यग्रहणस्नान विधिवर्णनं नाम पंचविंशत्युत्तरशततमोऽध्यायः
सांभरायणीव्रतवर्णनम् एतन्मे ब्रूहि गोविन्द परं कौतूहलं हि मे
नान्यदुष्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् २ यादृग्रूपश्च भगवांश्चिंतनीयो जनार्दनः
निर्धूतमलदोषश्च स्नातो नियतमानसः
प्रणिपातैः स्तवैः पुण्यैर्गंधैर्धूपैस्तु पूजयेत् समर्प्य ब्राह्मणेभ्यश्च देवार्चाद्युपयोगि च
बंधु पुत्रकलत्रेषु क्षेत्रधान्यधनादिषु
मित्राण्यमित्रान्मध्यस्थान्परान्स्वांश्च पुनः पुनः
ततश्च प्रयतः कुर्यादुत्सर्गं सर्वकर्मणाम्
परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान्
स्रग्भूषणादिकं गेयं दानमासनमेव च 4.126.
नैमित्तिकास्तथा काम्याः श्राद्धधर्मादयोज्झिताः
पद्भ्यां कराभ्यां विहरन्कुर्वाणः कर्म चोद्वहन्
नभसि प्राणिनो ये च ये जले ये च भूतले
धान्यादिषु च वस्त्रेषु शयनेष्वासनेषु च
न मेऽस्ति बांधवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम्
पार्श्वतो मूर्ध्नि हृदये बाहुभ्यां चैव चक्षुषोः
इति सर्वं समुत्सृज्य धृत्वा सर्वेशमच्युतम्
दक्षिणाग्रेषु दर्भेषु शेते वै प्राक्छिरास्तथा
विष्णुं जिष्णुं हृषीकेशं केशवं मधुसूदनम्
वाराहं यज्ञपुरुषं पुंडरीकाक्षमच्युतम् 4.126.
पद्मनाभमजं श्रीशं दामोदरमधोक्षजम्
चक्रिणं गदिनं शांतं शंखिनं गरुडध्वजम्
अहमस्मि जगन्नाथ मयि वासं कुरु द्रुतम्
अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम
एष पश्यतु मामीशः पश्याम्यहमधोक्षजम्
आसीत सुखदुःखेषु समो मित्राहितेषु च