पंचगव्यं च कुंभेषु पंचरत्नानि चैव हि
स्फटिकं चन्दनं श्वेतं तीर्थवारिससर्षपम् एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान्
सर्वे समुद्राः सरितस्तीर्थानि जलदा ह्रदाः
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः
रक्षोगणाधिपः साक्षात्प्रलयानिलसप्रभः 4.125.
योऽसौ बिन्दुकरो बिन्दुः पिनाकी वृषवाहनः
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च
एवमामंत्रितैः कुम्भैरंभोयुक्तैर्युगान्वितैः पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः
एतानेव ततो मंत्रान्संलिख्य कनकान्वितान् । यजमानस्य शिरसि उद्धार्यास्ते नरोत्तम
कलशान्द्रव्यसंयुक्तान्प्राप्ते ग्रहणपर्वणि ।। चन्द्रग्रहे निवृत्ते तु कृतगोदानमङ्गलः
कृतस्नानः श्वेतपट्टं ब्राह्मणाय निवेदयेत्
न तस्य ग्रहपीडा स्यान्न च बंधुजनक्षयः
सूर्यग्रहे सूर्यनाम सदा मंत्रेषु कीर्तयेत् १८ य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः
चन्द्रग्रहे नृप रविग्रहणे जपन्मां मंत्रैरिमैः समभिमंत्र्य शुभोदकुंभात् 4.125.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे चन्द्रादित्यग्रहणस्नान विधिवर्णनं नाम पंचविंशत्युत्तरशततमोऽध्यायः
सांभरायणीव्रतवर्णनम् एतन्मे ब्रूहि गोविन्द परं कौतूहलं हि मे
नान्यदुष्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् २ यादृग्रूपश्च भगवांश्चिंतनीयो जनार्दनः
निर्धूतमलदोषश्च स्नातो नियतमानसः
प्रणिपातैः स्तवैः पुण्यैर्गंधैर्धूपैस्तु पूजयेत् समर्प्य ब्राह्मणेभ्यश्च देवार्चाद्युपयोगि च
बंधु पुत्रकलत्रेषु क्षेत्रधान्यधनादिषु
मित्राण्यमित्रान्मध्यस्थान्परान्स्वांश्च पुनः पुनः
ततश्च प्रयतः कुर्यादुत्सर्गं सर्वकर्मणाम्
परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान्
स्रग्भूषणादिकं गेयं दानमासनमेव च 4.126.
नैमित्तिकास्तथा काम्याः श्राद्धधर्मादयोज्झिताः
पद्भ्यां कराभ्यां विहरन्कुर्वाणः कर्म चोद्वहन्
नभसि प्राणिनो ये च ये जले ये च भूतले
धान्यादिषु च वस्त्रेषु शयनेष्वासनेषु च
न मेऽस्ति बांधवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम्
पार्श्वतो मूर्ध्नि हृदये बाहुभ्यां चैव चक्षुषोः