तन्मध्ये श्वेतरजसा संपूर्णं पद्ममालिखेत्
दद्याद्दलेषु शक्त्यादींश्चतुर्थविधिपूर्वकम् 4.124.
देवीं विनायकं चैव स्थापयेत्तस्य पार्श्वतः
भक्ष्यान्नानाविधान्दद्यात्फलानि विविधानि च
एकैकं विन्यसेद्ब्रह्मन्सर्वौषधिसमन्वितम्
आग्नेय्यां दिशि कर्तव्यं मंडपस्य समीपतः
लवणं सर्षपैर्युक्तं घृतेन मधुना सह
द्वितीयमग्निकार्यस्य कर्तारं ब्राह्मणं कुरु
सितवस्त्रपरीधानं सितमालाधरं शुभम्
मंडल स्य समीपस्थो जपेद्रुद्रान्विमत्सरः
देवमंडलवत्कार्यं द्वितीयं मंडलं शुभम्
श्वेतवस्त्रैश्च संछन्ना श्वेतगंधानुलेपिता 4.124.
अभिषिंचेत्ततश्चैव नामर्कपत्रपुटांबुना
शतानि सप्तपर्णानां चतुर्भिरधिकानि तु
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात्
सर्वौषधिं रोचनां च नदीतीर्थोदकानि च
आपादतलकेशं च कुक्षी चैव विशेषतः
रुद्राभिजप्तेन ततः स्नापयेत्कलशेन ताम्
सर्वतोदिक्स्थितैः पश्चात्स्नापयेत्सफलाक्षतैः
हेतुरप्यत्र निर्दिष्टा दक्षिणा गौः पयस्विनी
गोवत्सकाञ्चनादीनि दत्त्वा सर्वं क्षमापयेत्
सुभगा सुखसंयुक्ता बहुपुत्रा च जायते 4.124.
तस्मादवश्यं कर्तव्यं पुत्रश्रीसुखमिच्छता
या स्नानमाचरति रुद्रमिति प्रसिद्धं श्रद्धान्विता द्विजवरानुमताऽऽनताङ्गी
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रुद्रस्नानविधिवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः
चन्द्रादित्यग्रहणस्नानविधिवर्णनम् तदहं श्रोतुमिच्छामि द्रव्यमन्नं प्रधानतः
तस्य स्नानं प्रवक्ष्यामि मंत्रौषधिसमन्वितम्
चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणवाचनम्
पूर्वमेवोपरागस्य समानीयौषधादिकम्
गजाश्वरथ्यावल्मीकसङ्गमाद्ध्रदगोकुलात्