उद्धृतासि वराहेण कृष्णेन शतबाहुना
एवं स्नात्वा ततः पश्चादाचम्य च विधानतः
ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय तु क्रूराः सर्वाः सुपर्णाश्च तरक्षा विहगाः खगाः
निराधाराश्च ये जीवाः पापकर्मरताश्च ये
तेषामाप्यायनायैतद्दीयते सलिलं मया
मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् 4.123.
देवब्रह्मऋषीन्सर्वांस्तर्पयेताक्षतोदकैः
अग्निष्वात्ता बर्हिषदो हविष्मंतस्तथोष्मपाः
तर्पयेच्च पितॄन्भक्त्या सतिलोदकचन्दनैः
पित्रादीन्नामगोत्रेण तथा मातामहानपि
ते तृप्तिमखिला यांतु यश्चास्मत्तोऽभिवाञ्छति
ततश्चाचम्य विधिवदालिखेत्पद्ममग्रतः
अर्घं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः
सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे
जगत्स्वामिन्नमस्तेऽस्तु दिव्यचंदनभूषित
नमस्ते सर्वलोकेश सर्वासुरनमस्कृत 4.123.
सत्यदेव नमस्तेस्तु सर्वदेव नमोऽस्तु ते
एवं सूर्यं नमस्कृत्य त्रिःकृत्वा च प्रदक्षिणाम्
स्नानं खलु प्रतिदिनं कथितं मुनीन्द्रैः पापापहं मलहरं सुखदं सदैव
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नित्यस्नानविधिवर्णनं नाम त्रयोर्विशत्युत्तरशततमोऽध्यायः
रुद्रस्नानविधिवर्णनम् सर्वदुष्टोपशमनं सर्वशांतिप्रदं नृणाम्
अगस्त्यो मुनिशार्दूलः सुखासीनमुवाच ह
सर्वज्ञोऽसि कुमार त्वं प्रसादाच्छङ्करस्य वै
या सुते दुहितां वंध्या स्नानमासां विधीयते
अष्टम्यां वा चतुर्दश्यामुपवासपरायणा
नद्योस्तु सङ्गमे कुर्यान्महानद्योर्विशेषतः
आहिताग्निं द्विजं शांतं धर्मज्ञं सत्यशीलिनम्
ततस्तु मंडपं कुर्याच्चतुरस्रमुदग्गतम्