पौषफाल्गुनयोर्मध्ये प्रातःस्नायी भवेन्नरः
त्रिंशद्दिनानि पुण्याणि मकरस्थे दिवाकरे
माघमासमिमं पूर्णं स्थाप्येहं देवमाधवम् 4.122.
अप्रावृतशरीरस्तु यः कष्टं स्नानमाचरेत्
तत्र स्नात्वा शुभे तीर्थे दत्त्वा शिरसि वै मृदम्
पितॄन्संतर्प्य तत्रस्थो ह्यवतीर्य ततो जलात्
शङ्खचक्रधरं देवं माधवं नाम पूजयेत्
भूशय्याब्रह्मचर्येण शक्तः स्नानं समाचरेत्
अवश्यमपि कर्तव्यं माघे स्नानमिति श्रुतिः
तिलस्नायी तिलोद्वर्ती तिलभोक्ता तिलोदकी
तैलस्यामलकानां च तीर्थे देयानि नित्यशः
एवं स्नानावसाने तु भोज्यं देयमवारितम्
कंबलाजिनरत्नानि वासांसि विविधानि च ।। 4.122.
उपानहौ तथा गुप्तं मोदकैः पापमोचकैः
अगम्यागमनस्तेयपापेभ्यश्च परिग्रहात्
पितृभिः पितामहैः सार्द्धं तथैव प्रपितामहैः
एकविंशकुलैः सार्द्धं भोगान्भुक्त्वा यथेप्सितान्
यो माघमास्युषसि सूर्य्यकराभिताम्रे स्नानं समाचरति चारुनदीप्रवाहे
नित्यस्नानविधिवर्णनम् तस्मात्कायविशुद्ध्यर्थं स्नानमादौ विधीयते
अनुद्धतैरुद्धतैर्वा जलैः स्नानं समाचरेत्
नमो नारायणायेति मूलमन्त्र उदाहृतः
चतुर्हस्तसमायुक्तं चतुरस्रं समंततः
ॐ विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्
नंदिनीत्येव ते नाम देवेषु नलिनीति च
विद्याधरा सुप्रसन्ना तथा लोक प्रसादिनी
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत्
सप्तवाराभिजप्तेन करसंपुटयोजितम् ।। ( ३) मूार्ध्नि कुर्याज्जलं भूप त्रिचतुःपञ्चसप्तधा ।। 4.123.
स्नानं कुर्यान्मृदा तद्वदा मंत्र्य च विधानतः
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे