सकृन्नवम्यां भक्तेन पूजयेद्विन्ध्यवासिनीम्
हैमं विप्राय शांताय स वाग्मी जायते नरः
द्वादश्यां गुह्यकानां च पललैक्षवसंयुतम्
विष्कम्भादिषु योगेषु एकमुक्तरतो नरः
यो ददाति क्रमादेषु घृततैलफलैक्षवम्
लवणं दधि दुग्धं च वस्त्रं कनकमेव च
कर्पूरं कुंकुमं चैव चंदनं कुसुमानि च 4.121.
स्नातः स्वशक्त्या विधिवत्सर्वपापैः प्रमुच्यते
कार्तिक्यां नक्तभुग्दद्यान्मेषं मार्गशिरे वृषम्
क्रमेण राशयः सर्वा वस्त्रमाल्यैर्विभूषिताः
एतद्राशिव्रतं नाम सर्वोपद्रवनाशनम्
पञ्चाशीतिर्व्रतानां ते कथिता पांडुनंदन
मुच्यते तत्क्षणादेव पातकैः सोपपातकैः
पंचाधिका तव मया कथिता व्रतानां राजन्नशीतिरतिसौख्यधनप्रदानाम्
माघस्नानविधिवर्णनम् वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम्
कलौ राजन्मनुष्याणां शैथिल्यं स्नानकर्मणि
यस्य हस्तौ च पादौ च वाङ्मनस्तु सुसंयतम्
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः
प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा
त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः
उषःसमीपे यः स्नानं संध्यायामुदिते रवौ
प्रातरुत्थाय यो विप्रः प्रातःस्नायी सदा भवेत्
वृथा चोष्णोदकस्नानं वृथा जाप्यमवैदिकम्
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिर्युधिष्ठिर ।। वायव्यं वारुणं ब्राह्मं दिव्यं चेति पृथक्शृणु । 4.122.
ब्राह्मं ब्राह्मणमंत्रोक्तं दिव्यं मेघांबुभास्करम्
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः
बालास्तरुणका वृद्धा नरनारीनपुंसकाः
ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते
माघमासे रटंत्यापः किञ्चिदभ्युदिते रवौ
प्रासादा यत्र सौवर्णाः स्त्रियश्चाप्सरसोपमाः तत्र ते यांति मज्जंति ये माघे भास्करोदये