नक्षत्रमालासहितं चामरापीडधारिणम्
ताम्रपात्र्यां कुण्डकं वा कृतं दत्त्वाग्रमोदकम्
कंठप्रमाणमाविश्य जलं मलविवर्जितः
कांतारकारिदुर्गेषु वारयत्यपि दुष्कृतीन्
ये कुर्वंति दिने पुण्ये व्रतं पौरंदरं नराः
पयोव्रतस्तु पञ्चम्यां दत्त्वा नागं द्विजातये
सिताष्टम्यां सोपवासो वृषभं यः प्रयच्छति 4.121.
शिवलोके वसेत्कल्पं ततो राजा भवेदिह
उत्तरे त्वयने प्राप्ते घृतप्रस्थेन यो हरिम्
स सर्वकामसंयुक्तः पुत्रभ्रातृसमन्वितः
सकृन्नवम्यां भक्तेन पूजयेद्विन्ध्यवासिनीम्
हैमं विप्राय शांताय स वाग्मी जायते नरः
द्वादश्यां गुह्यकानां च पललैक्षवसंयुतम्
विष्कम्भादिषु योगेषु एकमुक्तरतो नरः
यो ददाति क्रमादेषु घृततैलफलैक्षवम्
लवणं दधि दुग्धं च वस्त्रं कनकमेव च
कर्पूरं कुंकुमं चैव चंदनं कुसुमानि च 4.121.
स्नातः स्वशक्त्या विधिवत्सर्वपापैः प्रमुच्यते
कार्तिक्यां नक्तभुग्दद्यान्मेषं मार्गशिरे वृषम्
क्रमेण राशयः सर्वा वस्त्रमाल्यैर्विभूषिताः
एतद्राशिव्रतं नाम सर्वोपद्रवनाशनम्
पञ्चाशीतिर्व्रतानां ते कथिता पांडुनंदन
मुच्यते तत्क्षणादेव पातकैः सोपपातकैः
पंचाधिका तव मया कथिता व्रतानां राजन्नशीतिरतिसौख्यधनप्रदानाम्
माघस्नानविधिवर्णनम् वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम्
कलौ राजन्मनुष्याणां शैथिल्यं स्नानकर्मणि
यस्य हस्तौ च पादौ च वाङ्मनस्तु सुसंयतम्
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः
प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा
त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः