एतन्महीव्रतं प्रोक्तं सप्तकल्पानुवर्तकम्
गुडव्रतस्तृतीयायां सर्वोपस्करणैर्युतः
उमाव्रतमिदं प्रोक्तं सततानन्ददायकम्
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह
चैत्री त्रिरात्रं नक्ताशी नद्यां स्नात्वा ददाति यः
न जायते पुनरसौ जीवलोके कदाचन 4.121.
कन्यादानं तु यः कुर्यादुद्वाहं कारयेच्च यः
कन्यादानात्परं दानं न चास्त्यभ्यधिकं क्वचित्
तिलपिष्टमयं कृत्वा गजं हेमविभूषितम्
नक्षत्रमालासहितं चामरापीडधारिणम्
ताम्रपात्र्यां कुण्डकं वा कृतं दत्त्वाग्रमोदकम्
कंठप्रमाणमाविश्य जलं मलविवर्जितः
कांतारकारिदुर्गेषु वारयत्यपि दुष्कृतीन्
ये कुर्वंति दिने पुण्ये व्रतं पौरंदरं नराः
पयोव्रतस्तु पञ्चम्यां दत्त्वा नागं द्विजातये
सिताष्टम्यां सोपवासो वृषभं यः प्रयच्छति 4.121.
शिवलोके वसेत्कल्पं ततो राजा भवेदिह
उत्तरे त्वयने प्राप्ते घृतप्रस्थेन यो हरिम्
स सर्वकामसंयुक्तः पुत्रभ्रातृसमन्वितः
सकृन्नवम्यां भक्तेन पूजयेद्विन्ध्यवासिनीम्
हैमं विप्राय शांताय स वाग्मी जायते नरः
द्वादश्यां गुह्यकानां च पललैक्षवसंयुतम्
विष्कम्भादिषु योगेषु एकमुक्तरतो नरः
यो ददाति क्रमादेषु घृततैलफलैक्षवम्
लवणं दधि दुग्धं च वस्त्रं कनकमेव च
कर्पूरं कुंकुमं चैव चंदनं कुसुमानि च 4.121.
स्नातः स्वशक्त्या विधिवत्सर्वपापैः प्रमुच्यते
कार्तिक्यां नक्तभुग्दद्यान्मेषं मार्गशिरे वृषम्
क्रमेण राशयः सर्वा वस्त्रमाल्यैर्विभूषिताः