अनग्निपक्वमश्नाति तृतीयायां तु यो नरः
एतद्दृषिव्रतं नाम सर्वमाङ्गल्यकारकम्
तिलप्रस्थोपरि गतं सितमाल्ययुगान्वितम् तदंते राजराजः स्यादग्निव्रतमिदं स्मृतम्
कृत्वा पलद्वयादूर्ध्वं शय्याभ्यां संयुतं नरः
सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः
मुखवासं परित्यज्य समांते गोप्रदो भवेत्
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् 4.121.
चान्द्रायणं च यः कुर्याद्धैमं चन्द्रं निवेदयेत्
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम्
अनुलेपनं यः कुर्यात्तृतीयायां शिवालये
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत
दत्त्वा कृतोपवासस्तु दिवि कल्पशतं वसेत्
तद्वत्कल्पद्वयादूर्ध्वं करिभ्यां संयुतं नरः
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम्
सुरलोकमवाप्नोति धाम व्रतसमन्वितम्
पौर्णमास्यामवाप्नोति मोक्षमिन्दुव्रतादिह
दत्त्वा सितद्वितीयायामिंदोर्लवणभोजनम् 4.121.
समांते गोप्रदो याति विप्राय शिवमंदिरम्
प्रतिपद्येकभक्ताशी समांते कपिलाप्रदः
एकादश्यां माघमासे चतुर्दश्यष्टमीषु च
उपानहौ कंबलांश्च चैत्रे छत्रादिकं ततः
ब्राह्मणानां महाराज सोऽश्वमेधफलं लभेत्
दशम्यामेकभक्ताशी समांते दशधेनुदः
तिलद्रोणोपरिगतो ब्रह्मांडाधिपतिर्भवेत्
संपूज्य सितसप्तम्यां भानुधान्यानि सप्त यः
स तारयति सप्ताष्टौ कुलान्यात्मानमेव च
मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम् 4.121.
पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम्
दद्यात्त्रिंशत्पलादूर्ध्वं महीं कृत्वा तु कांचनीम्
तिलद्रोणोपरि गतां ब्राह्मणाय कुटुंबिने