बहुयत्नैर्न संशोध्य द्रव्यं चोरसमन्वितम्
हन्ता मां सगणं राजा किं करोमि कुतः सुखम्
नर्मदायां च मरणं शिवलोकप्रदायकम् 3.2.28.
विदेशिनोऽस्य वणिजो ददर्श विपुलं धनम्
चौरोऽयमिति निश्चित्य तौ बबंधात्मरक्षणात्
प्रतिकूले हरौ तस्मिन्राज्ञापि न विचारितम्
कारागारे लोहमयैः शृंखलैरंगपादयोः
जामात्रा सहितः साधुर्विललाप भृशं मुहुः
क्व स्थिता च सुता भार्या पश्य धातुर्विपर्ययम्
मया बहुतरं धातुर्विप्रियं हि पुराकृतम्
समं श्वशुरजामात्रौ द्वादशेषु विषादिनौ
शृण्वंति सुधियो नित्यं ते वसंति हरेः पदम्
प्रतिकूले हरौ तस्मिन्यास्यन्ति निरयान्बहून्
धर्मो यज्ञो नृपश्चौरः सर्वे लक्ष्मीप्रियंकराः
मातृभ्यो देवताभ्यश्च स्वधा स्वाहेति वै मखः
द्वयोर्हन्ता हि चोरः स ते सर्वे धर्मकिंकराः
सत्यहीनस्य तत्साधोर्धनं यत्तद्ग्रहे स्थितम्
वासोलंकरणादीनि विक्रीय बुभुजे किल
अथैकस्मिन्दिने कन्या भोजनाच्छादनं विना
प्रार्थयंतं जगन्नाथं दृष्ट्वा सा प्रार्थयद्धरिम्
आगच्छत्वर्चयिष्यामि भवंतमिति वाचये 3.2.29.
मात्रा निर्भर्त्सितेयंतं कालं कुत्र स्थिता शुभे
कलौ प्रत्यक्ष फलदः सर्वदा क्रियते नरैः
देशमायातु जनकः स्वामी च मम कामना
शीलपालस्य गुप्तस्य गेहे प्राप्ता धनार्थिनी
इति श्रुत्वा शीलपालः पंचनिष्कं धनं ददौ
इत्युक्त्वा सोऽनृणो भूत्वा गयाश्राद्धाय संययौ
लीलावती सह तया भक्त्याकार्षीत्प्रपूजनम्
नर्मदातीरनगरे नृपः सुष्वाप मंदिरे उवाच विप्ररूपेण बोधयञ्छ्लक्ष्णया गिरा
उत्तिष्ठोत्तिष्ठ राजेन्द्र तौ साधू परिमोचय