एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत्
य एतत्कुरुते भक्त्या स विष्णोः पदमाप्नुयात्
पयोव्रतस्तु पञ्चम्यां व्रतांते गोयुगप्रदः
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीम्
चतुर्थ्यां नक्तभुग्दद्यादष्ट गा होमचारणम्
महाफलानि यस्त्यक्त्वा चातुर्मासं द्विजातये
यश्चोपवासी सप्तम्यां समांते हेमपङ्कजम् 4.121.
भक्त्या राजेन्द्र विप्राय वाचकाय निवेदयेत्
द्वादश द्वादशीर्यस्तु नाम प्राशनसंयुतः
द्वादशात्र प्रदेयाश्च सर्वकामप्रसिद्धये
कार्त्तिक्यां यो वृषोत्सर्गं कृत्वा नक्तं समाचरेत्
व्रतांते गौः प्रदातव्या भोजनं शक्तितः परम्
चतुर्दश्यां तु नक्ताशी समांते गोयुगप्रदः
सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये
मासांते च स गां दद्याद्धेनुमंते पयस्विनीम्
सोपवासः पञ्चगव्यं पिबेद्रात्रौ विचक्षणः
कपिलायास्तु गोमूत्रं कृष्णाया गोमयं तथा 4.121.
गृहीत्वा कर्बुरायास्तु घृतमेकत्र मेलयेत्
ततः प्रभातसमये स्नात्वा संतर्प्य देवताः
ब्रह्मकूर्चव्रतं ह्येतत्सर्वपापप्रणाशनम् ब्रह्मकूर्चोपवासेन तत्सर्वं नश्यति क्षणात्
अनग्निपक्वमश्नाति तृतीयायां तु यो नरः
एतद्दृषिव्रतं नाम सर्वमाङ्गल्यकारकम्
तिलप्रस्थोपरि गतं सितमाल्ययुगान्वितम् तदंते राजराजः स्यादग्निव्रतमिदं स्मृतम्
कृत्वा पलद्वयादूर्ध्वं शय्याभ्यां संयुतं नरः
सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः
मुखवासं परित्यज्य समांते गोप्रदो भवेत्
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् 4.121.
चान्द्रायणं च यः कुर्याद्धैमं चन्द्रं निवेदयेत्
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम्
अनुलेपनं यः कुर्यात्तृतीयायां शिवालये