घृतकुंभं ततो दत्त्वा सर्वान्कामानवाप्नुयात्
अयनादयनं यावद्वर्जयेन्मधुसर्पिषी
दत्त्वा शिवपदं याति दत्त्वा तु घृतपायसम्
संध्यादीपप्रदो यस्तु मांसं तैलं विवर्जयेत्
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेद्दृढम्
एकभक्तेन सप्ताहं गौरीं वा यस्तु पूजयेत्
ततः सुवासिनीभ्यां तु कुंकुमेन विलेपयेत्
तांबूलं शोभनं दत्त्वा नारिकेलफलं तथा 4.121.
एकैकां पूजयेद्देवीं सप्ताहं यावदेव तु
षड्रसं भोजयित्वा तु यथाशक्त्या विभूषणैः
कुमुदा माधवी गौरी भवानी पार्वती उमा
ब्राह्मणं पृजयित्वैकं वाच्यः संपमन्नमस्तु ते
करोति सुन्दरं देहं सौभाग्यं यच्छते परम्
शुक्तिं गंधभृतां दत्त्वा विप्राय सितवाससी
वारुणं च पदं याति तदेतद्वरुणव्रतम्
मासांतेऽथ ततो दद्यात्सवत्सां गां द्विजातये ।। स्थित्वा विष्णुपदे कल्पं ततो राजा भवेदिह
एतत्कांतिव्रतं नाम कांतिकीर्तिप्रदायकम्
त्र्यहं तिलव्रती भूत्वा वह्निं संतर्पयेद्द्विजम् 4.121.
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम्
यश्चोभयमुखीं दद्यात्प्रभूतकनकान्विताम्
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम्
छादितं वरवासोभिः पुष्पमालाविभूषितम् । दत्त्वा स्वर्गे वसेत्कल्पं कल्पव्रतमिदं स्मृतम्
यस्तु वत्सतरीं भव्यां कण्ठाभरणभूषिताम्
मोदकोदकपात्रेण तांबूलेन समन्विताम्
ईदृग्विधां व्यतीपाते ग्रहणे चायनद्वये
एतद्वारव्रतं नाम मार्गखेदविनाशनम्
नक्ताशी त्वष्टमीषु स्याद्वत्सरांतेऽष्टगोप्रदः 4.121.
यश्चेन्धनप्रदो राजन्हेमंतशिशिर व्रतम्
शरीरारोग्यजननं द्युतिकांतिप्रदायकम्