अक्षतैस्तु समं कुर्यात्पद्मं गोमयमण्डले
शुद्धमष्टाङ्गुलं दयाच्छिवलोके महीयते
नवम्यामेकभुक्तं तु कृत्वा कन्याश्च शक्तितः
हैमं च सिंहं विप्राय दत्त्वा शिवपुरं व्रजेत्
एतद्वीरव्रतं नाम नारीणां च सुखप्रदम्
समाप्ते श्रद्धया दयद्गाश्च पञ्च पयस्विनीः
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्
तांबूलं समये नित्यं गौरीपुत्रं ददाति या 4.121.
वर्षस्यांते तु सौवर्णं कारयित्वा फलान्वितम्
न सा प्राप्नोति दौर्भाग्यं न दौर्गन्ध्यं मुखस्य च
चैत्रादिचतुरो मासाञ्जलं कुर्यादयाचितम्
व्रतांते मणिकं दद्यादन्नवस्त्रसमन्वितम्
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते
पञ्चामृतेन स्नपनं कृत्वा विष्णोः शिवस्य च
विप्राय कनकं शंखं स पदं याति शांकरम्
यो हिंसां वर्जयित्वा तु मासं संवत्सरं तथा
तद्वत्सवत्सां गां दद्यात्सोऽश्वमेधफलं लभेत्
माघमास्युषसि स्नानं कृत्वा दांपत्यमर्चयेत् 4.121.
सौभाग्यं महदाप्नोति शरीरारोग्यमुत्तमम्
आषाढादिचतुर्मासं प्रातःस्नायी भवेन्नरः
घृतकुंभं ततो दत्त्वा सर्वान्कामानवाप्नुयात्
अयनादयनं यावद्वर्जयेन्मधुसर्पिषी
दत्त्वा शिवपदं याति दत्त्वा तु घृतपायसम्
संध्यादीपप्रदो यस्तु मांसं तैलं विवर्जयेत्
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेद्दृढम्
एकभक्तेन सप्ताहं गौरीं वा यस्तु पूजयेत्
ततः सुवासिनीभ्यां तु कुंकुमेन विलेपयेत्
तांबूलं शोभनं दत्त्वा नारिकेलफलं तथा 4.121.
एकैकां पूजयेद्देवीं सप्ताहं यावदेव तु
षड्रसं भोजयित्वा तु यथाशक्त्या विभूषणैः