एतत्पंचघटं नाम व्रतं पुष्टिप्रदायकम्
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्याथ काञ्चनम्
शिरःसौगन्धजननं सदानन्दकरं नृणाम्
फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत्
संपूज्य विप्रमिथुनं भवानी प्रीयतामिति
संध्यामौनं नरः कृत्वा समाप्ते घृतकुंभदः
सारस्वतं पदं याति पुनरावृत्ति दुर्लभम्
लक्ष्मीमध्येऽथ पञ्चम्यामुपवासी भवेन्नरः ।। 4.121.
स वैष्णवं पदं याति लक्ष्मीः स्याज्जन्मजन्मनि
या तु नारी पिबेत्तोयं जलधारां प्रपातयेत्
एतद्धाराव्रतं नाम सर्वरोगहरं परम्
गौरीसमन्वितं रुद्रं लक्ष्म्या सह जनार्दनम्
धूपाक्षेपेणसहितां सुघंटां पात्रसंयुताम्
दक्षिणासहितां कृत्वा प्रणम्य च विसर्जयेत्
कृत्वोपलेपनं शंभोरग्रतः केशवस्य च
जन्मायुतं स राजा स्यात्ततः शिवपुरं वसेत्
अश्वत्थं भास्करं गंगां प्रणम्यैव च वाग्यतः
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत् ।। 4.121.
दिवि दिव्यविमानस्थः सेव्यतेऽप्सरसां गणैः
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य च
अक्षतैस्तु समं कुर्यात्पद्मं गोमयमण्डले
शुद्धमष्टाङ्गुलं दयाच्छिवलोके महीयते
नवम्यामेकभुक्तं तु कृत्वा कन्याश्च शक्तितः
हैमं च सिंहं विप्राय दत्त्वा शिवपुरं व्रजेत्
एतद्वीरव्रतं नाम नारीणां च सुखप्रदम्
समाप्ते श्रद्धया दयद्गाश्च पञ्च पयस्विनीः
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्
तांबूलं समये नित्यं गौरीपुत्रं ददाति या 4.121.
वर्षस्यांते तु सौवर्णं कारयित्वा फलान्वितम्
न सा प्राप्नोति दौर्भाग्यं न दौर्गन्ध्यं मुखस्य च