उत्पत्तिहेतुभूता वै भूतानां महतां नृप । तेषामेव गृहीतानि शनैः पञ्चेन्द्रियाणि तु
तथैवावयवाः सूक्ष्माः षण्णामप्यमितौजसाम्
संनिवेश्यात्ममात्रासु स राजन्भगवान्विभुः । भूतानि निर्ममे तात सर्वाणि विधिपूर्वकम्
यन्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयाणि षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः
महान्ति तानि भूतानि आविशन्ति ततो विभुम् । कर्मणा सह राजेन्द्र सगुणाश्चापि वै गुणाः
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्वयम्
भूतादिमहतस्तात येन व्याप्तमिदं जगत् । तस्मादपि महाबाहो पुरुषाः पञ्च एव हि
केचिदेवं परां तात सृष्टिमिच्छन्ति पण्डिताः । अन्येऽप्येवं महाबाहो प्रवदन्ति मनीषिणः
योऽसावात्मा परस्तात कल्पादौ सृजते तनुम् । प्रजनश्च महाबाहो सिसृक्षुर्विविधाः प्रजाः
तेन सृष्टः पुद्गलस्तु प्रधानं विशते नृप । प्रधानं क्षोभितं तेन विकारान्युजते बहून्
उत्पद्यते महांस्तस्मात्ततो भूतादिरेव हि । उत्पद्यते विशालं च भूतादेः कुरुनन्दन
विशालाच्च हरिस्तात हरेश्चापि वृकास्तथा । वृकैर्मुष्णन्ति च बुधास्तस्मात्सर्वं भवेन्नृप
तथैषामेव राजेन्द्र प्रादुर्भवति वेगतः । मात्राणां कुरुशार्दूल विबोधस्तदनन्तरम्
तस्मादपि हृषीकाणि विविधानि नृपोत्तम । तथेयं सृष्टिराख्याताऽऽराध्यतः कुरुनन्दन
भूयो निबोध राजेन्द्र भूतानामिह विस्तरम् । गुणाधिकानि सर्वाणि भूतानि पृथिवीपते
आकाशमादितः कृत्वा उत्तरोत्तरमेव हि । एकं द्वौ च तथा त्रीणि चत्वारश्चापि पञ्च च
ततः स भगवान्ब्रह्मा पद्मासनगतः प्रभुः । सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक्
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे । कर्मोद्भवानां देवानां सोऽसृजद्देहिनां प्रभुः
तुषितानां गणं राजन्यज्ञं चैव सनातनम् । दत्त्वा वीर समानेभ्यो गुह्यं ब्रह्म सनातनम्
दुदोह यज्ञसिद्धयर्थमृग्यजुः सामलक्षणम् । कालं कालविभक्तीश्च ग्रहानृतूंस्तथा नृप
सरितः सागराञ्छैलान्समानि विषमाणि च । कामं क्रोधं तथा वाचं रतिं चापि कुरुद्वह
सृष्टिं ससर्ज राजेन्द्र सिसृक्षुर्विविधाः प्रजाः । धर्माधर्मौ विवेकाय कर्मणां च तथासृजत्
सुखदुःखादिभिर्द्वन्द्वैः प्रजाश्चेमा न्ययोजयत् । अण्व्यो मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः
ताभिः सर्वमिदं वीर सम्भवत्यनुपूर्वशः । यत्कृतं तु पुरा कर्म सन्नियुक्तेन वै नृप
स तदेव स्वयं भेजे सृज्यमानं पुनः पुनः । हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते
यद्यथास्याभवत्सर्गे तत्तस्य स्वयमाविशत् । यथा च लिङ्गान्यृतवः स्वयमेवानुपर्यये
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः । लोकस्येह विवृद्ध्यर्थं मुखबाहूरुपादतः
ब्रह्म क्षत्रं तथा चोभौ वैश्यशूद्रौ नृपोत्तम । मुखानि यानि चत्वारि तेभ्यो वेदा विनिःसृताः
ऋग्वेदसहिता तात वसिष्ठेन महात्मना । पूर्वान्मुखान्महाबाहो दक्षिणाच्चापि वै शृणु
यजुर्वेदो महाराज याज्ञवल्क्येन वै सह । सामानि पश्चिमात्तात गौतमश्च महानृषिः