प्रणम्य भक्त्या देवेशौ प्रीयेतां शिवकेशवौ
कृत्वैकभुक्तं वर्षांते शक्त्या हैमवृषान्विताम्
एतद्रुद्रव्रतं नाम पापशोकप्रणाशनम्
सर्वौषध्युदकस्नातः पञ्चम्यां पूज्य पंचकम्
गृहाद्युलूखलं शूर्पः शिला स्थाली च पञ्चमी
एतानि गृहिणां गेहे प्रस्थाप्य पुरुषोत्तमम्
एतद्गृहव्रतं नाम सर्व सौख्यप्रदायकम्
यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् 4.121.
स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम्
पारिते च पुनर्दद्यात्तिलतैलघटं नवम्
लोकप्रीतिकरं चैतत्प्रीतिव्रतमिहोच्यते
दद्याद्वस्त्रयुगं सूक्ष्मं रसपात्रैश्च संयुतम्
एतद्गौरीव्रतं नाम भवानीलोक दायकम्
संवत्सरांते तस्मिन्वा दिवसे विघ्नवर्जितम्
विप्राय वसुसंयुक्तं प्रद्युम्नः प्रीयतामिति
एतत्कामव्रतंनाम सर्वशोकविनाशनम्
वृंताकभक्षणं चैव मधुसर्पिर्घटान्वितम्
रुद्रलोकमवाप्नोति शिवव्रतमिदं स्मृतम् 4.121.
संपूज्य पूर्णिमां देवीं लिखित्वा चन्दनादिना मधुना सितखण्डेन ब्राह्मणायोपपादयेत्
मनोरथान्पूरयस्व संपूर्णान्पूर्णिमा ह्यसि द्विजानेवं नमस्कृत्य सर्वान्कामानवाप्नुयात्
एतत्पंचघटं नाम व्रतं पुष्टिप्रदायकम्
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्याथ काञ्चनम्
शिरःसौगन्धजननं सदानन्दकरं नृणाम्
फाल्गुनादितृतीयायां लवणं यस्तु वर्जयेत्
संपूज्य विप्रमिथुनं भवानी प्रीयतामिति
संध्यामौनं नरः कृत्वा समाप्ते घृतकुंभदः
सारस्वतं पदं याति पुनरावृत्ति दुर्लभम्
लक्ष्मीमध्येऽथ पञ्चम्यामुपवासी भवेन्नरः ।। 4.121.
स वैष्णवं पदं याति लक्ष्मीः स्याज्जन्मजन्मनि
या तु नारी पिबेत्तोयं जलधारां प्रपातयेत्