धर्मं समृद्धिमतुलां यदि वाञ्छसि त्वं मासानुमासमिह मद्वचनं कुरुष्व 4.119.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽभिनवचंद्रार्घ्यव्रतवर्णनं नामैकोनविंशोत्तरशततमोऽध्यायः
शुक्रबृहस्पत्यर्घपूजावर्णनम् यात्रारंभे प्रयाणे च तथा शुक्रोदयेष्विह
शुक्रपूजा प्रकर्तव्या तां निशामय सारतः
शुक्लपुष्पांबरयुते सिततंडुलपूरिते
सह तेन सवत्साङ्गां ब्राह्मणाय निवेदयेत् कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते
दत्त्वैवमर्घ्यं कौन्तेय प्रणिपत्य विसर्जयेत्
यावच्छुक्रस्य न कृता पूजा सोहालकैः शुभै. तावन्न दानं दातव्यं स्त्रीभिः कामार्थसिद्धये
एवं तस्योदये कुर्वन्यात्रादिषु च भारत
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर पीतपुष्पांबरयुतं कृत्वा स्नात्वाथ सर्षपैः
पालाशाश्वत्थभंगेन पञ्चगव्यजलेन च
प्रणम्य च गवा सार्द्धं ब्राह्मणाय निवेदयेत् ।। 4.120.
नमस्तेऽङ्गिरसां नाथ वाक्पतेथ बृहस्पते
एवं सुरगुरुं पूज्य प्रणिपत्य क्षमापयेत्
अथ वा मौक्तिकान्येव सुवृत्तानि बृहंति च
भक्त्या मौक्तिकदानेन दत्तेन कुरुनन्दन कुर्वन्बृहस्पतेः पूजां न कदाचित्प्रजायते
ये भार्गवोदयमवाप्य सवस्त्रपुष्पां कुर्वंत्यनन्य मनसोऽङ्गिरसे च पूजाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुक्रबृहस्पत्यर्घपूजाविधानं नाम विंशत्युत्तरशततमोऽध्यायः
व्रतपञ्चाशीतिवर्णनम् नोक्तानि यानि कस्यापि मुनिभिर्धर्मदर्शिभिः
भविष्यमत्स्यमार्तंडपुराणेषु च वर्णितम्
यदभीष्टं सुमित्राय शिष्याय च सुताय च
श्रुतिस्मृतिपुराणेभ्यो यन्मया ह्यवधारितम्
स्नात्वा प्रभातसंध्यायामुपगृह्य च पिप्पलम्
व्रतानामुत्तमं ह्येतत्सर्वपापप्रणाशनम्
सुशुद्धस्य सुवर्णस्य सुवर्णं यः प्रयच्छति
व्रतं वाचस्पतेरेतद्बलबुद्धिप्रदायकम्
लवणं कटुतिक्तं च जीरकं मरिचानि च
चतुर्थ्या मेकभक्ताशी सकृद्दत्त्वा कुटुंबिने 4.121.
एतच्छिलाव्रतं नाम लक्ष्मीलोकप्रदायकम्
नक्तमन्नं चरित्वा तु गवा सार्द्धं कुटुंबिने