पूजितं चापि कुसुमैर्हृद्यैर्धूपैस्तु धूपितम्
खर्जूरैर्नालिकेरैश्च कूष्मांडैस्त्रपुषैरपि
वृंताकैर्दाडिमैश्चैव नारंगैः कदलीफलैः
नानाप्रकारैर्भक्ष्यैश्च गोभिर्वस्त्रै रसैः शुभैः
सौवर्णरौप्यपात्रेण ताम्रवंशमयेन च
दक्षिणाभिमुखो भूत्वा ह्यर्घ्यपाद्यादिकं च यत्
काशपुष्पप्रतीकाश अग्निमारुतसंभव ६५. रक्तो वल्लभदेवर्षे लंकावास नमोऽस्तु ते ।। 4.118.
वातापिर्भक्षितो येन समुद्राः शोषिताः पुरा
येनोदितेन पापानि प्रलयं यांति व्याधयः ब्राह्मणो वेदऋचया दद्यादर्घ्यं नमोऽस्तु ते
अगस्त्यः खनमानश्च नित्यं प्राजापत्यं बलिमिच्छमानः ' दत्त्वैवमर्घ्यं कौंतेय प्रतिपूज्य च पुष्पकैः
दैवज्ञव्यासरूपाय वेदवेदांगवादिने फलमेकं तथा धान्यं कोपं वासं परित्यजेत्
संपूर्णे च ततो वर्षे पुनर न्यदुपक्रमेत् पुमान्फलमवाप्नोति तदेकाग्रमनाः शृणु
ब्राह्मणश्चतुरो वेदान्सर्वशास्त्रविशारदः
वैश्योऽप्यायुष्यमाप्नोति गोधनं चापि नंदति
स्त्रीणां पुत्राः प्रजायंते सौभाग्यं वृद्धिऋद्धिमत्
कन्या भर्तारमाप्नोति व्याधेर्मुच्येत दुःखितः
येषु देशेष्वगस्त्यर्षेः पूजनं क्रियते जनैः 4.118.
ईतयः प्रशमं यांति नश्यंति व्याध यस्तथा
ते सर्वे पापनिर्मुक्ताश्चिरं स्थित्वा महीतले
मर्त्यो यदीच्छति गृहं परमर्द्धियुक्तं भोगशरीरमरुजं पशुपुत्रपुष्टिम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ऽगस्त्यार्घ्यविधिव्रतवर्णनं नामाष्टादशोत्तरशततमोऽध्यायः
अभिनवचन्द्रार्घ्यव्रतवर्णनम् शृणुष्वाभिनवस्येंदोरुदयेऽर्घ्यविधिं परम्
रविर्द्वादशभिर्भागैर्वारुण्यां दृश्यते यदि
द्वितीयायां सिते पक्षे संध्याकाले ह्युपस्थिते
गोमयं मंडलं कृत्वा चंदनेन सुशोभितम्
पुष्पचन्दनधूपैश्च दीपाक्षतजलैः शुभैः
मंत्रेणानेन राजेन्द्र क्षत्रियः सपुरोहितः आप्यायस्व समेत्वेवं सोमराज नमोनमः
अनेनविधिनाचार्यं सर्वकामफलप्रदम्
स कीर्त्या यशसा कांत्या धन्यश्च भुवि मानवः
स्थित्वा वर्षशतं मर्त्ये ततः सोमपुरं व्रजेत् वरस्त्रीभिः सहात्यर्थं यावदाभूतसंप्लवम्