ततोऽगस्त्यः कारुण्या रत्नैः श्राद्धमकल्पयत्
प्राप्तश्च परमं स्थानमगस्त्यर्षेः प्रसादतः
कस्मान्मेरुमिवासौ मां न करोति प्रदक्षिणम्
एकीभूयाश्रमं गत्वा स्तुत्वा देवर्षिपुङ्गवम्
विंध्यं निवारय स्वैनं स्थितौ स्थापय पर्वतम्
प्रस्थितं तीर्थयात्रायां विद्धि मामचलोत्तम
एवमुक्त्वा संप्रयातो नाद्यापि विनिवर्तते
त्रैलोक्यवंद्यचरणो लोपामुद्रासहायवान् 4.118.
तत्राश्रमस्थलिकायामृतुकाले ह्युपस्थिते
भवेद्यदि गृहं रम्यं सर्वरत्नविभूषितम्
दुकूलपट्टनेत्रैश्च विलासैर्ललितैर्मुने
एतच्छुत्वा मुनिहृर्ष्टः प्राह्वयद्धनदं क्षणात्
तत्र रेमे स भगवानगस्त्यः स्वाश्रमे सुखम्
आस्तिक्यबुद्ध्या भक्त्या च धनं प्राप्स्यसि पांडव
कन्यायां समनुप्राप्ते सूर्ये यः सन्निवर्तते
स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरो गृही
पञ्चरत्नसमायुक्तं घृतपात्रेण संयुतम्
काञ्चनं कारयित्वा तु यथाशक्त्या सुशोभनम् 4.118.
कमण्डलुकरं शिष्यैर्मृगैश्च परिधारितम्
तस्मिन्क्रमे समालग्नं चन्दनेन ततो न्यसेत्
पूजितं चापि कुसुमैर्हृद्यैर्धूपैस्तु धूपितम्
खर्जूरैर्नालिकेरैश्च कूष्मांडैस्त्रपुषैरपि
वृंताकैर्दाडिमैश्चैव नारंगैः कदलीफलैः
नानाप्रकारैर्भक्ष्यैश्च गोभिर्वस्त्रै रसैः शुभैः
सौवर्णरौप्यपात्रेण ताम्रवंशमयेन च
दक्षिणाभिमुखो भूत्वा ह्यर्घ्यपाद्यादिकं च यत्
काशपुष्पप्रतीकाश अग्निमारुतसंभव ६५. रक्तो वल्लभदेवर्षे लंकावास नमोऽस्तु ते ।। 4.118.
वातापिर्भक्षितो येन समुद्राः शोषिताः पुरा
येनोदितेन पापानि प्रलयं यांति व्याधयः ब्राह्मणो वेदऋचया दद्यादर्घ्यं नमोऽस्तु ते
अगस्त्यः खनमानश्च नित्यं प्राजापत्यं बलिमिच्छमानः ' दत्त्वैवमर्घ्यं कौंतेय प्रतिपूज्य च पुष्पकैः