तस्मिन्काले विषं लग्नं किञ्चिच्छेषं द्रुमादिषु
तद्विषं चूर्णितं तेन क्षणात्संकोचितं तथा
मनुष्याणां तु जायंते रोगा नानाविधा भुवि
वृषसंक्रातिमारभ्य सिंहांते शाम्यते विषम्
एवं कालेन महता नीरुजे व्याधिवर्जिते
निरंतरे मर्त्यलोके ऊर्ध्वबाहु प्रसारिणि
प्रजा व्यापादयन्कालादाजगाम महामुनेः
भस्मीबभूव पश्चाच्च ब्रह्मणः सुखकारणात् 4.118.
तथान्यो दंडकारण्ये श्वेतो नाम नृपोत्तमः
भगवत्सर्वमेवान्यद्दत्तं राज्यमदान्मया
ततोऽगस्त्यः कारुण्या रत्नैः श्राद्धमकल्पयत्
प्राप्तश्च परमं स्थानमगस्त्यर्षेः प्रसादतः
कस्मान्मेरुमिवासौ मां न करोति प्रदक्षिणम्
एकीभूयाश्रमं गत्वा स्तुत्वा देवर्षिपुङ्गवम्
विंध्यं निवारय स्वैनं स्थितौ स्थापय पर्वतम्
प्रस्थितं तीर्थयात्रायां विद्धि मामचलोत्तम
एवमुक्त्वा संप्रयातो नाद्यापि विनिवर्तते
त्रैलोक्यवंद्यचरणो लोपामुद्रासहायवान् 4.118.
तत्राश्रमस्थलिकायामृतुकाले ह्युपस्थिते
भवेद्यदि गृहं रम्यं सर्वरत्नविभूषितम्
दुकूलपट्टनेत्रैश्च विलासैर्ललितैर्मुने
एतच्छुत्वा मुनिहृर्ष्टः प्राह्वयद्धनदं क्षणात्
तत्र रेमे स भगवानगस्त्यः स्वाश्रमे सुखम्
आस्तिक्यबुद्ध्या भक्त्या च धनं प्राप्स्यसि पांडव
कन्यायां समनुप्राप्ते सूर्ये यः सन्निवर्तते
स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरो गृही
पञ्चरत्नसमायुक्तं घृतपात्रेण संयुतम्
काञ्चनं कारयित्वा तु यथाशक्त्या सुशोभनम् 4.118.
कमण्डलुकरं शिष्यैर्मृगैश्च परिधारितम्
तस्मिन्क्रमे समालग्नं चन्दनेन ततो न्यसेत्