ऋतुस्नाता सती लीलावती पर्यचरत्पतिम्
कन्यां कमललोलाक्षीं बांधवामोदकारिणीम्
विप्रानाहूय वेदज्ञान्कारयामास मंगलम् 3.2.28.
कलानिधिकले वासौ ववृधे सा कलावती
दशवर्षा भवेत्कन्या ततः प्रौढा रजस्वला
नगरे कांचनपुरे वणिक्छंखपतिः श्रुतः
वरयामास तं साधुर्दुहितुः सदृशं वरम्
वेदवादित्रनिनदैर्ददौ कन्यां यथाविधि
महामोदमनाः साधुर्मंगलार्थं ददौ च ह
तं मेने पुत्रवत्साधुः स च तं पितृवत्सुधीः
विस्मृत्य सह जामात्रा वाणिज्याय ययौ पुनः सूत उवाच अथ साधुः समादाय रत्नानि विविधानि च
नौकाः संस्थाप्य स ययौ देशाद्देशान्तरं प्रति
कुर्वन्क्रयं विक्रयं च चिरं तस्थौ महामनाः 3.2.28.
ततः कर्मविपाकेन तापमापाचिराद्वणिक्
ज्ञात्वा निद्रागतान्सर्वान्हृतं चौरैर्महाधनम्
प्रातःकृत्यं नृपः कृत्वा सदः संप्राविशच्च सः
उवाच स तदा वाक्यं शृणुष्व त्वं धरा पते
मुमुषुश्चौरा गतास्सर्वे न जानीमो वयं नृप
उवाच क्रोधताम्राक्षो यूयं संयात मा चिरम्
नो चेद्धनिष्ये सगणानिति दूतान्समादिशत्
बहुयत्नैर्न संशोध्य द्रव्यं चोरसमन्वितम्
हन्ता मां सगणं राजा किं करोमि कुतः सुखम्
नर्मदायां च मरणं शिवलोकप्रदायकम् 3.2.28.
विदेशिनोऽस्य वणिजो ददर्श विपुलं धनम्
चौरोऽयमिति निश्चित्य तौ बबंधात्मरक्षणात्
प्रतिकूले हरौ तस्मिन्राज्ञापि न विचारितम्
कारागारे लोहमयैः शृंखलैरंगपादयोः
जामात्रा सहितः साधुर्विललाप भृशं मुहुः
क्व स्थिता च सुता भार्या पश्य धातुर्विपर्ययम्
मया बहुतरं धातुर्विप्रियं हि पुराकृतम्