मंदरस्य समीपे तु चेरतुर्विपुलं तपः
तयोः संक्षोभणार्थाय वासवेन वराप्सराः
तस्याः संदर्शनादेव क्षुभितौ तौ सुरोत्तमौ
निमेः शापात्तत्र जातो वशिष्ठो भगवानृषिः
मलयस्यैकदेशे तु वैखानसविधानतः
आस्तां दैत्यौ पुरा दुष्टावादौ कृतयुगस्य तु
तयोरेकोऽभवन्मेषो द्वितीयो भोज्यदायकः
अथान्यस्मिन्दिने दैत्यो ह्यगस्त्यं संन्यमन्त्रयत् 4.118.
अगस्त्योप्यभवच्छ्राद्धे धौरेयो रोषदर्पितः
परिविष्यमाणेषु तेषु स्तिमितं प्राह दानवम्
मैषं मांसं ततः प्रादादिल्वलः कुपितस्तदा
शुचिर्बभौ ततः प्राह वातापिमिल्वलः शनैः
तच्छ्रुत्वागस्त्यविप्रोऽपि उद्गारं कृतवान्गुरुम्
जीर्णोऽयं भस्मभूतोऽयं वातापिर्ब्रह्मकंटकः
भस्मीभूतः क्षणेनैव ततः शांतं जगद्बभौ
संमंत्र्य निश्चयं मेरौ ततोऽगस्त्यमुपागताः
तेऽगस्त्यमाहुर्ब्रह्मर्षे समुद्रं शोषयस्व वै
तया पीतः समुद्रोऽपि भ्रांतमीनोर्मिकच्छपः 4.118.
क्षयं नीताः क्षणात्सर्वे क्रन्दमानाः पुनःपुनः
अथ गंगानदीतोयैः संपूर्णे सागरे पुनः
ममंथुः सहिताः सर्वे समुद्रं दैत्यदानवाः
अतिलोभान्मथ्यमाने सागरे पयसां निधौ
येनासौ सुरसंघाते आघूर्णिता इवाभवत्
निर्गम्य च वधं चक्रुर्मुनीनामूर्ध्वरेतसाम्
समुद्रमध्ये न ज्ञात्वा ब्रह्मा नारायणो हरः
ततो मन्त्रैः शंकरेण किञ्चित्तत्रैव भक्षितम्
ब्रह्मापि चेतनां प्राप्य अब्रह्मण्यमुवाच ह
अगस्त्यो दक्षिणाशायां लङ्कामूले महामुनिः 4.118.
एवमुक्ता गता देवा अगस्त्याश्रमदक्षिणाम्
ध्यानं चक्रे विषं येन हिमाद्रौ संप्रवेशितम्