उपोष्प विधिनानेन दश सप्त यथाक्रमम् 4.117.
स्थापयित्वायसे पीठे कृशरान्नं निवेद्य च
ब्राह्मणाय पुनर्दद्याल्लोहं तैलं तिलांस्तथा दक्षिणां च यथाशक्त्या दत्त्वा भद्रां विसर्जयेत्
य एवं कुरुते पार्थ सम्यग्भद्राव्रतं नरः
राक्षसाश्च पिशाचा वा पूतनाशाकिनीग्रहाः
न चैवेष्टवियोगः स्यान्न हानिस्तस्य जायते
सूर्यात्मजातिदयिता भगिनी शनेर्या मर्त्ये भ्रमत्यतिरथा करणक्रमेण
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विष्टिव्रतवर्णनं नाम सप्तदशोत्तरशततमोऽध्यायः
अगस्त्यव्रतवर्णनम् तच्छृणुष्व महीपाल कथ्यमानं मयानघ
जन्म चैवार्घदानं च कालमुद्गमनस्य च
मंदरस्य समीपे तु चेरतुर्विपुलं तपः
तयोः संक्षोभणार्थाय वासवेन वराप्सराः
तस्याः संदर्शनादेव क्षुभितौ तौ सुरोत्तमौ
निमेः शापात्तत्र जातो वशिष्ठो भगवानृषिः
मलयस्यैकदेशे तु वैखानसविधानतः
आस्तां दैत्यौ पुरा दुष्टावादौ कृतयुगस्य तु
तयोरेकोऽभवन्मेषो द्वितीयो भोज्यदायकः
अथान्यस्मिन्दिने दैत्यो ह्यगस्त्यं संन्यमन्त्रयत् 4.118.
अगस्त्योप्यभवच्छ्राद्धे धौरेयो रोषदर्पितः
परिविष्यमाणेषु तेषु स्तिमितं प्राह दानवम्
मैषं मांसं ततः प्रादादिल्वलः कुपितस्तदा
शुचिर्बभौ ततः प्राह वातापिमिल्वलः शनैः
तच्छ्रुत्वागस्त्यविप्रोऽपि उद्गारं कृतवान्गुरुम्
जीर्णोऽयं भस्मभूतोऽयं वातापिर्ब्रह्मकंटकः
भस्मीभूतः क्षणेनैव ततः शांतं जगद्बभौ
संमंत्र्य निश्चयं मेरौ ततोऽगस्त्यमुपागताः
तेऽगस्त्यमाहुर्ब्रह्मर्षे समुद्रं शोषयस्व वै
तया पीतः समुद्रोऽपि भ्रांतमीनोर्मिकच्छपः 4.118.
क्षयं नीताः क्षणात्सर्वे क्रन्दमानाः पुनःपुनः
अथ गंगानदीतोयैः संपूर्णे सागरे पुनः