मण्डपं मण्डपारम्भे भंक्त्वा भीषयते जनम्
विरूपा दुष्टहृदया स्वेच्छाचारविहारिणी 4.117.१
वितर्कयन्यावदेवमास्ते देवो दिवस्पतिः
अथाजगाम सवितुः पार्श्वे ब्रह्माऽण्डसंभवः
भास्करस्तमुवाचाथ ब्रह्माणं भुवनेश्वरम्
एवमुक्तस्तदा ब्रह्मा भास्करेणामितद्युतिः
करणैः सह वर्तस्व बवबालवकौलवैः
यात्राप्रवेशमांगल्यकृषिवाणिज्यकारणात्
उद्वेजनीयो नो हि जनो भवत्या दिवसत्रयम्
उल्लंघ्य ये प्रवर्तंते भद्रे त्वां निर्भया नराः
एवमुक्त्वा गतो ब्रह्मा भद्रापि भुवनत्रयम्
एवमेषा समुत्पन्ना विष्टिरिष्टविनाशिनी 4.117.
असितजलदवर्णा दीर्घनासोग्रदंष्ट्रा विपुलहनुकपाला पिंडिकोद्बद्धजंघा
भानोः सुता केतुशताग्रजाता कृष्णा कुमूर्तिः सततं कुचेला
मुखे तु घटिकाः पञ्च द्वे कंठे तु सदा स्थिते
कट्यां पञ्चैव विज्ञेयास्तिस्रः पुच्छे जयावहाः
हदि प्राणहरा ज्ञेया नाभ्यां तु कलहावहा
पृथिव्यां यानि कार्याणि सुशुभान्यशुभानि च
धन्या दधिमुखी भद्रा महामारी खरानना
भैरवी च महाकाली असुराणां क्षयंकरी
न च व्याधिर्भवेत्तस्य रोगी रोगात्प्रमुच्यते
रणे राजकुले द्यूते सर्वत्र विजयी भवेत् ।।4.117.
यश्च पूजयते नित्यं शास्त्रोक्तविधिना नरः
येनोपवासविधिना व्रतेन च यशस्विनी
यदि रात्रौ भवेद्विष्टिरेकभुक्तं दिनद्वयम्
प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम्
सर्वौषध्युदकस्नानं सुगंधामलकैरथ
देवान्पितॄन्प्रीणयित्वा ततो दर्भमयीं शुभाम्
होमं कृत्वा विष्टिनामैरष्टोत्तरशतं ततः सतिलां कृशरां भुक्त्वा पश्चाद्भुञ्जीत कामतः
छायासूर्यसुते देवि विष्टिरिष्टार्थदायिनि