पृथ्वी च यावत्सकुलाचला च यावच्च सूर्यानिलवह्निचन्द्राः
ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात्सुकुलप्रसूतः
इति पठति शृणोति योऽतिभक्त्या विधिमखिलं रविसंक्रमेषु पुण्यम्
विष्टिव्रतवर्णनम् कस्यात्मजेयं किंरूपा पूज्यते च कथं जनैः । शनैश्चरस्य सोदर्या भगिन्यतिभयंकरी
सा जातमात्रा भुवनं ग्रस्तुं समुपचक्रमे
निर्याति यदि कार्येण कश्चित्तस्य पुरः स्थिता
यज्ञविघ्नकरी रौद्रा समाजोत्सवनाशिनी
तां तु दुर्विनयासक्तां दृष्ट्वा देवो दिवाकरः
कन्यादुर्विनयाच्चेह पिता दोषेण गृह्यते
विचिंत्यैवं सुतां भद्रां यस्ययस्य प्रयच्छति
मण्डपं मण्डपारम्भे भंक्त्वा भीषयते जनम्
विरूपा दुष्टहृदया स्वेच्छाचारविहारिणी 4.117.१
वितर्कयन्यावदेवमास्ते देवो दिवस्पतिः
अथाजगाम सवितुः पार्श्वे ब्रह्माऽण्डसंभवः
भास्करस्तमुवाचाथ ब्रह्माणं भुवनेश्वरम्
एवमुक्तस्तदा ब्रह्मा भास्करेणामितद्युतिः
करणैः सह वर्तस्व बवबालवकौलवैः
यात्राप्रवेशमांगल्यकृषिवाणिज्यकारणात्
उद्वेजनीयो नो हि जनो भवत्या दिवसत्रयम्
उल्लंघ्य ये प्रवर्तंते भद्रे त्वां निर्भया नराः
एवमुक्त्वा गतो ब्रह्मा भद्रापि भुवनत्रयम्
एवमेषा समुत्पन्ना विष्टिरिष्टविनाशिनी 4.117.
असितजलदवर्णा दीर्घनासोग्रदंष्ट्रा विपुलहनुकपाला पिंडिकोद्बद्धजंघा
भानोः सुता केतुशताग्रजाता कृष्णा कुमूर्तिः सततं कुचेला
मुखे तु घटिकाः पञ्च द्वे कंठे तु सदा स्थिते
कट्यां पञ्चैव विज्ञेयास्तिस्रः पुच्छे जयावहाः
हदि प्राणहरा ज्ञेया नाभ्यां तु कलहावहा
पृथिव्यां यानि कार्याणि सुशुभान्यशुभानि च
धन्या दधिमुखी भद्रा महामारी खरानना
भैरवी च महाकाली असुराणां क्षयंकरी