भगं तु नैर्ऋते देवं वरुणं पश्चिमे दले
शांतमीशानभागे तु नमस्कारेण विन्यसेत्
दक्षिणे यमनामानं मार्तंडं पश्चिमे दले
अर्घ्यं दद्यात्ततः पार्थ सतिलारुणचंदनम् 4.115.१० कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः
अग्निमीले नमस्तुभ्यमिषे त्वोर्जे च भास्करे
अर्घ्यं दत्त्वा विसर्ज्याथ निशि तैलविवर्जितम्
प्राक्तनेऽह्नि शनौ चैव तैलाभ्यंगं विवर्जयेत्
पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा
गां कल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतनायकाय
नमोऽस्तु ऋक्सामयजुर्विधात्रे पद्मप्रबोधाय जगत्सवित्रे
इत्यनेन विधानेन वर्षमेकं तु यो नरः
धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः 4.115.
कर्मसंक्षयमवाप्य पार्थिवः शोकदुःखभयरोगवर्जितः
या च भर्तृगुरुदेवतत्परा वेदमूर्तिदिननक्तमाचरत्
यः पठेदथ शृणोति वा नरः पश्यतीत्थमथ वानुमोदयेत् ।। सोऽपि शक्रभवने दिवौकसैः कल्पकोटिशतमेकमीड्यते
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आदित्यदिननक्तविधिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः
संक्रान्त्युद्यापनवर्णनम् यदक्षयं परं लोके पुराणकवयो विदुः
विषुवे अयने वापि संक्रातिव्रतमारभेत्
संक्रांतिवासरे प्राप्ते तिलैः स्नानं विधीयते
पद्मं सकर्णिकं कुर्यात्तस्मिन्नावाहयेद्रविम्
नमः सप्तार्चिषेऽग्नेये याम्ये रुङ्मण्डलाय च
सप्तसप्तिं च वायव्ये पूजयेद्भास्वतां पतिम्
गन्धमाल्यफलैर्भक्ष्यैः स्थंडिले पूजयेत्ततः
नमस्ते विश्वरूपाय विश्वधात्रे स्वयंभुवे
अनेन विधिना दत्त्वा भानवेऽर्घ्यं नरोत्तम
कमलं च यथाशक्त्या कारयित्वा निवेदयेत 4.116.
एकभुक्ताशनैः पुंभिः सर्वमेतद्यथाविधि
कौंतेय तस्मिन्घृतपायसेन संपूज्य वह्निं द्विजपुंगवाय
निवेदयेद्ब्राह्मणपुङ्गवाय हैमीं च दद्यात्पृथिवीं ससस्याम्
सौवर्णसूर्येण समं प्रदद्यान्न वित्तशाठ्यं पुरुपोऽत्र कुर्यात्