क्रूरावलोकनवशाद्भुवनं नाशयिष्यति यो ग्रहो रुष्टः
यत्पुरा नष्टराज्याय नलाय प्रददौ किल
क्रोडं नीलाञ्जनप्रख्यं नीलवर्णसमस्रजम
नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णांजनमेचकाय 4.114.
नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः
य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम्
एवमूचे शनिः पूर्वमतस्तं ब्राह्मणे ददेत्
स्थावरेस्थावरे प्राप्ते वत्सरं यावदेव तु
एवमुक्त्वा सुराः सर्वे प्रतिजग्मुर्यथागतम्
पिप्पलादोऽपि ब्रह्मज्ञो ब्रह्माज्ञां प्रतिपालयन्
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः
शनैश्चरमिति स्तुत्वा पिप्पलादो महामुनिः
इदं शनैश्चराख्यानं ये श्रोष्यन्ति समाहिताः
कृष्णायसेन घटितां ग्रहराजमूर्तिं लोहे निधाय कलशे तिलतैलपूर्णे 4.114.
आदित्यदिननक्तविधिवर्णनम् व्रतं तद्ब्रूहि गोविन्द सर्वपापप्रणाशनम्
सूर्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम्
तमाराध्य पुमान्किं न प्राप्नोति कुरुनन्दन
उत्पद्यते यदा भक्तिर्भानोरुपरि शाश्वती
पूर्वोक्तविधिना चैव पूजयित्वा द्विजोत्तमान्
विलिख्य द्वादशदलं पूज्य सूर्येति पूर्वतः
भगं तु नैर्ऋते देवं वरुणं पश्चिमे दले
शांतमीशानभागे तु नमस्कारेण विन्यसेत्
दक्षिणे यमनामानं मार्तंडं पश्चिमे दले
अर्घ्यं दद्यात्ततः पार्थ सतिलारुणचंदनम् 4.115.१० कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः
अग्निमीले नमस्तुभ्यमिषे त्वोर्जे च भास्करे
अर्घ्यं दत्त्वा विसर्ज्याथ निशि तैलविवर्जितम्
प्राक्तनेऽह्नि शनौ चैव तैलाभ्यंगं विवर्जयेत्
पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा
गां कल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतनायकाय
नमोऽस्तु ऋक्सामयजुर्विधात्रे पद्मप्रबोधाय जगत्सवित्रे