शनैश्चरेण क्रूरेण ग्रहेण त्वं हि पीडितः
तेनैतत्ते फलं प्राप्तं सैषः सौरिः शनैश्चरः
एवमुक्तः शिशुः क्रोधात्प्रजज्वालेव पावकः पतमानो गिरेः शृंगाद्भग्नः खंजो बभूव ह
धरण्यां पतितं दृष्ट्वा भास्करात्मजमातुरम् 4.114.
हर्षाद्देवानथाहूय दर्शयामास तं शनिम्
अथ देवास्तथा प्राप्ता ब्रह्मरुद्रेन्द्रपावकाः
स्वस्ति तेऽस्तु महाभाग पिप्पलाद महामुने अन्वर्थयुक्तं विप्रेन्द्र जीवितं पिप्लादनात्
भगवन्पिप्पलान्यत्त्वा जीवितोऽसि यतो मुने
ये च त्वां पूजयिष्यंति स्नात्वा पुष्पैर्महाऋषिम्
इहाश्रमे समभ्येत्य रूपेस्मिन्भक्तिभाविताः
न तेषां बाधिका सत्यं ग्रहपीडा भविष्यति
तेषां शनैश्चर कृता पीडा न प्रभविष्यति
चरन्वृक्षं शनैरेष शुभाशुभफलप्रदः
बलिहोमनमस्कारैः शांतिं यच्छंति पूजिताः 4.114.
कार्यं देयं च विप्राणां तैलमभ्यंगहेतवे
तैलं ददाति विप्राणां स्वशक्त्यान्यजनेपि च
लोहैस्संघटितं सौरिं तैलमध्ये विनिक्षिपेत्
कृष्णगोदक्षिणायुक्तं कृष्णकंबल शायिनम्
कृष्णगंधैः कृष्णधूपैः कृशरान्नैस्तिलौदनैः
मंत्रेणानेन ब्रह्मर्षे शन्नोदेवीति भक्तिमान्
क्रूरावलोकनवशाद्भुवनं नाशयिष्यति यो ग्रहो रुष्टः
यत्पुरा नष्टराज्याय नलाय प्रददौ किल
क्रोडं नीलाञ्जनप्रख्यं नीलवर्णसमस्रजम
नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णांजनमेचकाय 4.114.
नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः
य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम्
एवमूचे शनिः पूर्वमतस्तं ब्राह्मणे ददेत्
स्थावरेस्थावरे प्राप्ते वत्सरं यावदेव तु
एवमुक्त्वा सुराः सर्वे प्रतिजग्मुर्यथागतम्
पिप्पलादोऽपि ब्रह्मज्ञो ब्रह्माज्ञां प्रतिपालयन्