यश्चैतच्छ्रणुयात्कल्पं ग्रहाणां पठतेऽपि वा
शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत्
सूर्यं विधुं कुज बुधौ गुरुशुक्रसौरीन्हस्तादिकर्क्षसहितानुदितक्रमेण
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे ग्रहनक्षत्रव्रतवर्णनं नाम त्रयोदशोत्तरशततमोऽध्यायः
शनैश्चरव्रतवर्णनम् पुरा त्रेतायुगे पार्थ नावर्षत्पाकशासनः
ततो राष्ट्रं क्षुधाविष्टं बभूवातीव दारुणम्
तस्मिन्घोराकुले काले सपत्नीकः सबालकः
मार्गेऽथ गच्छता तेन कौशिकेन महर्षिणा
तस्मिन्काले विशेषेण क्षीणेन्नौषधि संचये
सोऽपि बालो रुदन्दीनो दिशो वीक्ष्य स्थितः पथि
कूपे जलं पपौ नित्यं तत्रैवाश्रममंडले
अथाजगाम भगवान्नारदो वेदपारगः
दयया तस्य संस्कारं चक्रे मौंज्यादिबंधनम् ददौ च वैष्णवं मंत्रं द्वादशाक्षरमित्युत
वेदाभ्यासरतस्यास्य विष्णुध्यानपरस्य च 4.114.
वैनतेयसमारूढो नीलोत्पलदलच्छविः
स उवाच तदा तुष्टो वरं ब्रूहि यमि च्छसि नारदेनाप्यनुज्ञातो ज्ञानविद्यामयाचत
दत्त्वा ज्ञानं सोपदेशं योगाभ्यासं च निर्मलम्
ततो राजन्महाज्ञानी महर्षिः स शिशुस्तदा
ग्रहेणाग्रहभूतेन बालरूपोऽपि दुःखित.
ब्राह्मण्यं भवता दत्तं दैवान्मम द्विजोत्तम
शनैश्चरेण क्रूरेण ग्रहेण त्वं हि पीडितः
तेनैतत्ते फलं प्राप्तं सैषः सौरिः शनैश्चरः
एवमुक्तः शिशुः क्रोधात्प्रजज्वालेव पावकः पतमानो गिरेः शृंगाद्भग्नः खंजो बभूव ह
धरण्यां पतितं दृष्ट्वा भास्करात्मजमातुरम् 4.114.
हर्षाद्देवानथाहूय दर्शयामास तं शनिम्
अथ देवास्तथा प्राप्ता ब्रह्मरुद्रेन्द्रपावकाः
स्वस्ति तेऽस्तु महाभाग पिप्पलाद महामुने अन्वर्थयुक्तं विप्रेन्द्र जीवितं पिप्लादनात्
भगवन्पिप्पलान्यत्त्वा जीवितोऽसि यतो मुने
ये च त्वां पूजयिष्यंति स्नात्वा पुष्पैर्महाऋषिम्
इहाश्रमे समभ्येत्य रूपेस्मिन्भक्तिभाविताः