सप्तमे च ततः प्राप्ते दत्त्वा ब्राह्मणभोजनम् 4.113.
पात्रे कृत्वा सोमराजं श्वेतवस्त्रावगुंठितम्
दध्यन्नशिखरं दत्त्वा ब्राह्मणाय निवेदयेत्
श्रीमहादेवजावल्ली पुष्पगोक्षीरपांडुर
एवं कृते महाराज सोमस्तुष्टिप्रदो भवेत्
स्वात्यामंगारकं गृह्य क्षपयेन्नक्तभोजनः
रक्तवस्त्रयुगच्छन्नं कुंकुमेनानुलेपनम्
मंत्रेणानेन तं दद्याद्ब्राह्मणाय कुटुंबिने अमंगलं निहत्याशु सर्वदा यच्छ मंगलम्
विशाखासु बुधं गृह्य सप्त नक्तान्यथाचरेत्
बुधः सद्बुद्धिजननो बोधदः सर्वदा नृणाम् 4.113.
अनुराधास्वथाचार्यं देवानां पूज्य भक्तितः
हैमं हेममये पात्रे स्थापयित्वा बृहस्पतिम्
पादुकाच्छत्रसहितं सदंडं सकमण्डलुम्
खण्डखाद्योपहारैश्च द्विजाय प्रतिपादयेत् अगाधबुद्धिगांभीर्य देवाचार्य नमोऽस्तु ते
शुक्रं ज्येष्ठासु संगृह्य क्षपयेन्नक्तभोजनैः
सप्तमे त्वथ संप्राप्ते सौवर्णं कारयेच्छुभम्
संपूज्य परया भक्त्या श्वेतवस्त्रविलेपनैः
दद्यादनेन मंत्रेण ब्राह्मणाय विचक्षणः
हत्वा ग्रहकृतान्दोषानायुरारोग्यदो भव
तस्मिन्दिने पूजनीयं ग्रहत्रितयमादरात् 4.113.
होमं तिलघृतैः कुर्याद्गृहनाम्ना तु मंत्रवित्
उदुंबरशमीदूर्वाकुशाश्च समिधः क्रमात्
होतव्यं मधुसर्पिभ्यां दध्ना वा पायसेन वा
ग्रहास्त्रयोऽपि कर्तव्या राजँल्लोहमयाः शुभाः
कृष्णवस्त्रयुगं दद्यादेकैकस्य क्रमान्नृप
होमावसाने सर्वं तद्ब्राह्मणायोपपादयेत्
केतवे च नमस्तुभ्यं सर्वशांतिप्रदो भव
यदि भौमो रविसुतो भास्करो राहुणा सह
अनेन कृतमात्रेण सर्वे शाम्यंत्युपद्रवाः
एवं यः कुरुते राजन्सदाभक्तिसमन्वितः 4.113.