कथान्ते प्रणमन्भक्त्या प्रसादं जगृहुस्ततः
पूजाप्रभावतो भिल्लाः पुत्रदारादिभिर्युताः
भुक्त्वा भोगान्यथेष्टन्ते दरिद्रान्धा द्विजोत्तम
नृपोपदेशतः साधुः कृतार्थोऽभूद्वणिग्यथा
मणिपूरपती राजा चन्द्रचूडो महायशाः
अथ रत्नपुरस्थायी साधुर्लक्षपतिर्वणिक्
ददर्श बहुलं लोकं नानाग्रामविलासिनम्
वेदवादांश्च शुश्राव गीतवादित्रसंगतान्
विश्रामयात्र तरणीरिति पश्यामि कौतुकम्
तटसीम्नः समुत्तीर्य मल्ललीलाविलासिनः
स्वयमुत्तीर्य सामात्यो लोकान्पप्रच्छ सादरम्
किमत्र क्रियते सभ्या भवद्भिर्लोकपूजितैः
पूज्यते बंधुभिः सार्धं राज्ञा लोकानुकंपिना 3.2.28.
धनार्थी लभते द्रव्यं पुत्रार्थी सुतमुत्तमम्
सर्वान्कामानवाप्नोति नरः सत्यसुरार्च नात्
दंडवत्प्रणिपत्याह कामं सभ्यानमोदयत्
पुत्रं वा यदि वा कन्यां लभेयं त्वत्प्रसादतः
श्रुत्वा सभ्या अब्रुवंस्ते कामनासिद्धिरस्तु ते
जगाम स्वालयं साधुर्मनसा चिंतयन्हरिम्
मंगलानि विचित्राणि यथोचितमकारयन्
ऋतुस्नाता सती लीलावती पर्यचरत्पतिम्
कन्यां कमललोलाक्षीं बांधवामोदकारिणीम्
विप्रानाहूय वेदज्ञान्कारयामास मंगलम् 3.2.28.
कलानिधिकले वासौ ववृधे सा कलावती
दशवर्षा भवेत्कन्या ततः प्रौढा रजस्वला
नगरे कांचनपुरे वणिक्छंखपतिः श्रुतः
वरयामास तं साधुर्दुहितुः सदृशं वरम्
वेदवादित्रनिनदैर्ददौ कन्यां यथाविधि
महामोदमनाः साधुर्मंगलार्थं ददौ च ह
तं मेने पुत्रवत्साधुः स च तं पितृवत्सुधीः