यथा न कामिनीदेहात्प्रयाति तव केशव तथैव काञ्चनं देवं प्रति गृह्णन्द्विजोत्तमः
क इदं कोऽदात्कस्मा अदात्कामः कामायादात्कामो दाता कामः प्रतिग्रहीता कामँ समुद्रमाविशमैतत्त-इति वैदिकमन्त्रमीरयेत्' ततः प्रदक्षिणीकृत्य विसृजेद्द्विजपुङ्गवम्
ततःप्रभृति योऽन्योपि रत्यर्थं गृहमागतः
एवमेकं द्विजं शांतं पुराणज्ञं विचक्षणम्
न प्राप्नोति तदा विघ्नं गर्भसूतकजं क्वचित्
साधारनष्टपशुवद्यथाशक्त्या समापयेत्
पुरुहूतेन यत्प्रोक्तं दानुवीषु ततो मया
सर्वपापप्रशमनमनंतफलदायकम् 4.111.
एतत्पार्थ मया पूर्वं गोपीनां तु प्रकाशितम्
करोति याऽशेषमखण्डमेतत्कल्याणिनी माधवलोकसंस्था
वृन्ताकव्रतविधिवर्णनम् संवत्सरं च षण्मासांस्त्रीन्मासान्वा न भक्षयेत् दर्भपाणिर्गंधोदकेनावाहयेत् कालमावाहयामि चित्रगुप्तमावाहयामि मृत्युमावाहयामि ततोग्निमुपसमाधाय तिलाज्ये जुहुयात् कालाय स्वाहा चित्रगुप्ताय स्वाहा मृत्यवे स्वाहा अग्निर्मूर्धेत्याहुतीस्त्वष्टशतं हुत्वा स्विष्टकृतिं कृत्वा प्रायश्चित्तं हुत्वा ब्राह्मणः स्वयमेव करोति अथ सौवर्णं वृंताकं ब्राह्मणाय निवेदयेत् कर्णवेष्टांगुलीयके च्छत्रोपानहौ कृष्णयुगं कृष्णकंबलं च दद्यात् पौंडरीकाश्वमेधफलमवाप्नोति सप्तजन्मांतरं यावद्यमलोकं न पश्यतीत्याह भगवान्बौधायनः कृत्वा व्रतं वत्सरमासमेकं याम्यं न पश्यति पुरं पुरुषः कदाचित्
ग्रहनक्षत्रव्रतवर्णनम् येन लक्ष्मीनिर्वृतिस्तु पुष्टिश्चैवोपजायते
सर्वे ग्रहाः सदा सौम्या जायंते येन पांडव
नक्तोक्तविधिना सर्वं कुर्यात्पूजां तथा रवेः
ततस्तु सप्तमे प्राप्ते कुर्याद्ब्राह्मणवाचनम्
ताम्रपात्रे स्थापयित्वा रक्तपुष्पैः प्रपूज्य च
घृतेन स्नपनं कृत्वा लड्डुकान्विनिवेद्य च
आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकर
कृतेनानेन राजेन्द्र भवेदारोग्यमुत्तमम्
अविसंवादिनी चेयं शान्तिपुष्टिप्रदा नृणाम्
सप्तमे च ततः प्राप्ते दत्त्वा ब्राह्मणभोजनम् 4.113.
पात्रे कृत्वा सोमराजं श्वेतवस्त्रावगुंठितम्
दध्यन्नशिखरं दत्त्वा ब्राह्मणाय निवेदयेत्
श्रीमहादेवजावल्ली पुष्पगोक्षीरपांडुर
एवं कृते महाराज सोमस्तुष्टिप्रदो भवेत्
स्वात्यामंगारकं गृह्य क्षपयेन्नक्तभोजनः
रक्तवस्त्रयुगच्छन्नं कुंकुमेनानुलेपनम्
मंत्रेणानेन तं दद्याद्ब्राह्मणाय कुटुंबिने अमंगलं निहत्याशु सर्वदा यच्छ मंगलम्
विशाखासु बुधं गृह्य सप्त नक्तान्यथाचरेत्
बुधः सद्बुद्धिजननो बोधदः सर्वदा नृणाम् 4.113.