भक्तिमत्यो वरारोहास्तदा देवकुलेषु च
तेषां गृहेषु तिष्ठध्वं सूतकं चापि तत्समम्
अनुमान्यः प्रसाद्यश्च शुल्कदो देववत्सदा
सुरूपो वा विरूपो वा द्रव्यं तत्र प्रयोजनम् न चापि मद्यपाभिश्च भाव्यं कौटिल्यबुद्धिभिः
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा
व्यभिचारो न कर्तव्यः स्वामिना सह कर्हिचित्।। रूपयौवनदर्पेण धनलोभेन वा पुनः
दासी भूत्वा च या काचिद्व्यभिचारं करोति च
देवतानां पितॄणां च पुण्येऽह्नि समुपस्थिते 4.111.
ब्राह्मणेभ्यो वरारोहाः कार्याणि वचनानि च ।। यच्चाप्यन्यद्व्रतं सम्यगुपदेक्ष्यामि तत्त्वतः.
अविचारेण सर्वाभिरनुष्ठेयं च तत्पुनः
भवेत्सर्वौषधिस्नानं सम्यङ्नारी समाचरेत्
तदा पञ्चशरस्यापि संनिधातृत्वमेष्यति
मेढ्रं कदर्पनिधये कटिं प्रीतियुजे नमः
नाभिं सौख्यसमुद्राय वामनाय तथोदरम्
उत्कंठायेति वै कंठमास्यमानन्दजाय च
नमोऽनन्ताय वै मौलिं विलोलायेति च ध्वजम्
नमः श्रीपतये तार्क्ष्यध्वजांकुशधराय च नमो नारायणायेति कामदेवात्मने नमः
नमः शांत्यै नमः प्रीत्यै नमो रत्यै नमः श्रिये 4.111.
एवं संपूज्य गोविन्दमनंगात्मकमीश्वरम्
अत्र चाहूय धर्मज्ञं ब्राह्मणं वेदपारगम्
शालेयतंडुलप्रस्थं घृतपात्रेण संयुतम्
यथेष्टाहारभुक्तं च तमेव द्विजसत्तमम्
यद्यदिच्छति विप्रेन्द्रस्तत्तत्कुर्याद्विलासिनी
एवमादित्यवारेण सदा तद्व्रतमाचरेत्
ततस्त्रयोदशे मासि संप्राप्ते तस्य भामिनी
सोपधानकविश्रामां स्वास्तरावरणां शुभाम्
सपत्नीकमलंकृत्य हेमसूत्राङ्गुलीयकैः
कामदेवं सपत्नीकं गुडकुंभोपरि स्थितम् 4.111.
सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम्
यथांतरं न पश्यामि कामकेशवयोः सदा