एवंविधविधानेन गृहीत्वा ब्राह्मणो व्रजेत् ततः पंच महायज्ञान्निर्वपेद्भोजनादि च
एवं यः कुरुते भक्त्या व्रतमेतत्सकृत्तथा २९ खंडं संपूर्णतां याति प्रसन्ने व्रतदैवते 4.110.
भोगी भव्यो लसत्कीर्तिः स्व संपूर्णमनोरथः
यथेष्टचेष्टाचारी च ब्रह्मविष्ण्विन्द्रपूजितः
प्रायश्चित्तमिदं प्रोक्तं पुरा गर्गेण मे प्रभो
एवं त्वमपि कौंतेय चर संपूर्णकं व्रतम्
भग्नानि यानि मदमोहवशाद्गृहीत्वा जन्मान्तरेष्वपि नरेण समत्सरेण
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संपूर्णव्रतवर्णनं नाम दशोत्तर शततमोऽध्यायः
कामदानवेश्याव्रतवर्णनम् पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्त्वतः
का ह्यासां देवता कृष्ण किं व्रतं किमुपोषितम्
मम पत्नीसहस्राणि संति पांडव षोडश
ताभिर्वसंतसमये कोकिलालिकुलाकुले निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृते
कुरंगनयनः श्रीमान्मालतीकृतशेखरः
साक्षात्कंदर्परूपेण सर्वाभरणभूषितः
प्रवृद्धो मन्मथस्तासां सर्वाङ्गक्षोभदायकः
अशेषे रुषितः सर्वा हरिष्यंतीह दस्यवः
एतद्वाक्यमुपश्रुत्य बाष्पर्याकुलेक्षणाः
भर्तारं जगतामीशं भवंतमपरा जितम् 4.111.
द्वारिकावासिनः सर्वान्देवरूपान्कुमारकान्
दासभावमनुप्राप्य भविष्यामः कथं पुनः
तथा लालप्यमानास्ता वाष्पपर्याकुलेक्षणाः
जलक्रीडाविहारेषु पुरा सरसि मानसे
हुताशनसुताः सर्वा भवत्योऽप्सरसः पुरा
कथं नारा यणोऽस्माकं भर्ता स्यादित्युपादिश
शय्याद्वयप्रदानेन मधुमाधवमासयोः भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि
न कृतो यत्प्रणामो मे रूपसौभाग्यमत्सरात् चौरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ
एवं नारदशापेन मच्छापेन च सांप्रतम्
इदानीमपि यद्वक्ष्ये तच्छ्रणुध्वं वराननाः दानवासुरसैन्येषु राक्षसेषु ततस्ततः ।। 4.111.
तेषां नारीसहस्राणि शतशोऽथ सहस्रशः
तानि सर्वाणि देवेशः प्रोवाच वदतां वरः .