रूपं स्त्रीपुंसयोर्वापि प्रारब्धं यद्व्रते किल
द्विभुजं पङ्कजारूढं सौम्यप्रहसिताननम्
तन्मासे च पुनः प्राप्ते ब्राह्मणो विधिना गृहे 4.110.
गंधचंदनपुष्पैश्च चर्चयेत्कुंकुमादिना
धूपदीपाक्षतैर्वस्त्रै रत्नैरप्युपहारकैः
उपसन्नस्य दीनस्य प्रायश्चित्तकृताञ्जलेः
परत्र भयभीतस्य भग्नखण्डव्रतस्य च
तपश्छिद्रं व्रतच्छिद्रं यच्छिद्रं भग्नके व्रते स्वाहा
(अमुकदेवाय नमः विदिक्षु चोपर्य्यधस्ताद्दिक्पालेभ्यो नमोनमः
इदमर्घ्यमिदं पाद्यं नैवेद्यं ते नमोनमः
वक्षःकुक्षिदृष्टिपृष्ठबाह्वंसांकशिरोरुहान्
पूजितस्त्वं यथाशक्त्या नमस्तेऽस्तु सुरोत्तम
एवं क्षमापयित्वा तु देवरूपं विधानतः 4.110.
स्थित्वा पूर्वमुखो विप्रो गृह्णीयाद्दर्भपाणिना मंत्रेणानेन कौंतेय सोपवासः प्रयत्नतः
इदं व्रतं मया खंडं कृतमासीत्पुरा द्विज
ब्राह्मणोऽपि प्रतीच्छेत्तु मंत्रेणानेन तद्व्रतम् संपूर्णस्य प्रसादेन भव पूर्णमनोरथः
ब्राह्मणा यत्प्रभाषंते ह्यनुमोदंति देवताः
जलधिः क्षारतां नीतः पावकः सर्वभक्षताम्
ब्राह्मणानां तु वचनाद्ब्रह्महत्या प्रणश्यति
व्यासवाल्मीकिवचनाद्ब्राह्मणवचनाच्च गर्गगौतम पराशरधौम्यांगिरसवाष्ठिनारदादिमुनिवचनात्संपूर्णं भवतु ते व्रतम्
एवंविधविधानेन गृहीत्वा ब्राह्मणो व्रजेत् ततः पंच महायज्ञान्निर्वपेद्भोजनादि च
एवं यः कुरुते भक्त्या व्रतमेतत्सकृत्तथा २९ खंडं संपूर्णतां याति प्रसन्ने व्रतदैवते 4.110.
भोगी भव्यो लसत्कीर्तिः स्व संपूर्णमनोरथः
यथेष्टचेष्टाचारी च ब्रह्मविष्ण्विन्द्रपूजितः
प्रायश्चित्तमिदं प्रोक्तं पुरा गर्गेण मे प्रभो
एवं त्वमपि कौंतेय चर संपूर्णकं व्रतम्
भग्नानि यानि मदमोहवशाद्गृहीत्वा जन्मान्तरेष्वपि नरेण समत्सरेण
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संपूर्णव्रतवर्णनं नाम दशोत्तर शततमोऽध्यायः
कामदानवेश्याव्रतवर्णनम् पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्त्वतः
का ह्यासां देवता कृष्ण किं व्रतं किमुपोषितम्