शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम्
भाजनोपानहच्छत्रचामरासनदर्पणैः
तस्यां निधाय तं देवमलंकृत्य गुणान्वितम्
सुवर्णशृंगीं रौप्यखुरां सवत्सां कांस्यदोहनाम्
यथा न देवशयनं तव पर्वतजातया
यथा देव न श्रेयोऽर्थस्त्वदन्यो विद्यते क्वचित्
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् 4.109.
नैतद्विशीलाय न दांभिकाय कुतर्कदुष्टाय विनिंदकाय
भक्ताय दांताय गुणान्विताय प्रदेयमेतच्छिवभक्तियुक्तैः
या वाथ नारी कुरुतेऽतिभक्त्या भर्तारमाश्रित्य शुभं गुरुं वा
इदं वशिष्ठेन पुराऽर्जुनेन कृतं कुबेरेण पुरंदरेण
इति पठति शृणोति वा य इत्थं शिवपुरुषं पुरुहूतवल्लभः स्यात्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शिवनक्षत्रपुरुषव्रतवर्णनं नाम नवोत्तरशततमोऽध्यायः
सम्पूर्णव्रतवर्णनम् गृहीतं रभसा कृष्ण ह्यन्यद्वा व्रतमुत्तमम्
संपूर्णं जायते येन यदचीर्णं पुरा स्थितम्
रहस्यानां रहस्यं ते कथयामि व्रतोत्तमम्
सम्पूर्णं नाम तच्चापि व्रतं सम्यक्फलप्रदम्
अवश्यं तच्च कर्तव्यमक्षीणफलकांक्षिभिः तत्संपूर्णं भवेत्सर्वं व्रतेनानेन पाण्डव
उपद्रवैर्बहुविधैर्मदान्मोहाच्च पार्थिव तत्संपूर्णं भवेत्पार्थ सत्यंसत्यं न संशयः
कांचनं रौप्यकं रूपं शिल्पिना तद्धटापयेत्
रूपं स्त्रीपुंसयोर्वापि प्रारब्धं यद्व्रते किल
द्विभुजं पङ्कजारूढं सौम्यप्रहसिताननम्
तन्मासे च पुनः प्राप्ते ब्राह्मणो विधिना गृहे 4.110.
गंधचंदनपुष्पैश्च चर्चयेत्कुंकुमादिना
धूपदीपाक्षतैर्वस्त्रै रत्नैरप्युपहारकैः
उपसन्नस्य दीनस्य प्रायश्चित्तकृताञ्जलेः
परत्र भयभीतस्य भग्नखण्डव्रतस्य च
तपश्छिद्रं व्रतच्छिद्रं यच्छिद्रं भग्नके व्रते स्वाहा
(अमुकदेवाय नमः विदिक्षु चोपर्य्यधस्ताद्दिक्पालेभ्यो नमोनमः
इदमर्घ्यमिदं पाद्यं नैवेद्यं ते नमोनमः