शिवनक्षत्रपुरुषं शिवभक्तिप्रदायकम्
फाल्गुनस्यामले पक्षे यदा हस्तः प्रजायते
शिवा येति च हस्तेन पादौ पूज्यतमौ स्मृतौ
भीमायेति च स्वातीषु पूजयेत्पुरुषर्षभ
मेढ्रं चैवानुराधासु अनङ्गाङ्गहराय च
दानाख्याय नमो नाभिः पूज्या मूलेन शूलिनः
श्रवणेन तथा कुक्षी पूज्ये कपालिनेति च 4.109.
वामेति पूजयेत्पार्थ हृदयं शतभिषासु च
पूज्यं रुद्राय च तथा रेवतीषु करद्वयम्
भरणीषु ततः पृष्ठं वृषांकाय नमोऽस्तु ते
वाक्पूज्या रोहिणीयोगे नमो वाचस्पतेति च
आर्द्रासु पूज्यावधरौ स्थाणवेति युधिष्ठिर
पुष्ये नेत्रत्रयं पूज्यं नमस्ते सर्वदर्शिने
मघासु च जटाजूटं पूजयेदंधकारये
नमोऽस्तु पाशांकुशपद्मशूलकपालसर्पेन्दुधनुर्द्धराय
शिरः सम्पूजयेद्दद्यात्ततो धूपविलेपनम्
शालितण्डुलकप्रस्थं घृतपात्रेण संयुतम् 4.109.
शक्त्यभावे न दोषः स्यादधिके चाधिकं फलम्
सूतकाशौचदोषे तु पुनरन्यदुपोषयेत्
ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीर घृतादिभिः
शय्यां सुलक्षणां कृत्वा विरुद्धग्रंथिवर्जिताम्
भाजनोपानहच्छत्रचामरासनदर्पणैः
तस्यां निधाय तं देवमलंकृत्य गुणान्वितम्
सुवर्णशृंगीं रौप्यखुरां सवत्सां कांस्यदोहनाम्
यथा न देवशयनं तव पर्वतजातया
यथा देव न श्रेयोऽर्थस्त्वदन्यो विद्यते क्वचित्
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् 4.109.
नैतद्विशीलाय न दांभिकाय कुतर्कदुष्टाय विनिंदकाय
भक्ताय दांताय गुणान्विताय प्रदेयमेतच्छिवभक्तियुक्तैः
या वाथ नारी कुरुतेऽतिभक्त्या भर्तारमाश्रित्य शुभं गुरुं वा