वर्जनीयं प्रयत्नेन रूपघ्नं तद्विनिर्दिशेत्
सोमं नक्षत्रराजानं स्वमन्त्रैरर्चयेद्बुधः
नक्षत्रज्ञाय विप्राय दानं दद्याच्च शक्तितः
उपोष्य वाचोप विशेन्नक्षत्रमपरं पुनः 4.108.
समाप्ते तु व्रते दद्याच्छक्त्या सोपस्करान्वितम्
ब्राह्मणं ब्राह्मणीं चैव वस्त्रालंकारभूषणैः
सप्तधान्यं यथालाभं गां सवत्सां पयस्विनीम्
मंत्रेणानेन विप्राय सुशीलाय निवेदयेत् तथा सुरूपतारोग्य सुखसंपदिहास्तु मे
यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन
एवं निवेद्य तत्सर्वं प्रणिपत्य क्षमापयेत्
नक्षत्रपुरुषाख्योऽयं यथावत्कथितस्तव
अङ्गोपाङ्गानि चैवास्य पादादीनि यशस्विनि
गात्राणि चैव भद्राणि शरीरारोग्यमुत्तमम्
वाङ्माधुर्यं तथा कांतिं यच्चान्यदपि वांछितम् 4.108.
वशिष्ठेन यथाख्यातं सर्वं तत्ते निवेदितम्
हृद्बाहुजानुनयनोरुनितंबभागं दक्षैः प्रकल्प्य सुतनुं पुरुषोत्तमस्य
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रपुरुषव्रतवर्णनं नामाष्टाधिक शततमोऽध्यायः
नक्षत्राख्यव्रतवर्णनम् अनभ्यासेन योगाद्वा किमिष्टं व्रतमुच्यते
शिवस्योपरि यस्य स्याद्भक्तिः सूर्यस्य संभवेत्
अस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत्
शिवनक्षत्रपुरुषं शिवभक्तिप्रदायकम्
फाल्गुनस्यामले पक्षे यदा हस्तः प्रजायते
शिवा येति च हस्तेन पादौ पूज्यतमौ स्मृतौ
भीमायेति च स्वातीषु पूजयेत्पुरुषर्षभ
मेढ्रं चैवानुराधासु अनङ्गाङ्गहराय च
दानाख्याय नमो नाभिः पूज्या मूलेन शूलिनः
श्रवणेन तथा कुक्षी पूज्ये कपालिनेति च 4.109.
वामेति पूजयेत्पार्थ हृदयं शतभिषासु च
पूज्यं रुद्राय च तथा रेवतीषु करद्वयम्
भरणीषु ततः पृष्ठं वृषांकाय नमोऽस्तु ते