तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती
तस्मात्पार्थ प्रयत्नेन प्रतिमासं समाहितः
ये सांभरायणिकथाचरितव्रतेस्मिन्वर्षाणि सप्त विधिना सुधियो नयंति
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम सप्ताधिकशततमोऽध्यायः
नक्षत्रपुरुषव्रतवर्णनम् कर्मणा जायते केन तन्ममाख्यातुमर्हसि
सुरूपाणां सुगात्राणां सुवेषाणां तथैव च
समस्तैः शोभनैरंगैर्नराः केचिद्यदूत्तम
नराणां योषितां चैव समस्ताङ्गः सुरूपता
लावण्यगतिवाक्यानि सति रूपे महामते
वाक्यलावण्यसंस्कारविलासललिता गतिः
रूपकारणभूताय कर्मणा प्रयतो भवेत्
कथयामि यथाप्रोक्तं वरिष्ठेन महात्मना
वशिष्ठमृषिमासीनं सप्तर्षिप्रवरं द्विजम्
तस्यास्तु परिपृच्छन्त्या जगाद मुनिसत्तमः 4.108.
सुरूपता नृणां येन योषितां चोपजायते
अनभ्यर्च्य तु गोविंदमनाराध्य च केशवम्
तस्मादाराधनीयोऽग्रे विष्णुरेव यशस्विनि
यस्तु वाञ्छति धर्मज्ञे रूपं सर्वांगसुन्दरम्
सुस्नातः प्रयताहारः संपूजयति योऽच्युतम्
योषिता हि परं रूपमिच्छन्त्या जगतः पतिः
मुने येन विधानेन तन्ममाख्यातुमर्हसि
यथा कुर्वीत रूपार्थं तन्निशामय तत्त्वतः
नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः
मूले पादौ तथा जंघे रोहिण्यामर्चयेच्छुभे 4.108.
फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम्
अनुराधासूरः पृष्ठं धनिष्ठास्वभिपूजयेत्
पुनर्वसावंगुलीश्च आश्लेषासु तथा नखान्
पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत्
मृगोत्तमांगे नयने पूजयेद्भक्तितः शुभे
संपूजनीया विद्वद्भिरार्द्रायां च शिरोरुहाः