कथयामास चाश्चर्यं तच्चापि कथयामि ते
शंकुकर्णस्तदा दैत्यो बभूवात्यंतदुर्जयः इन्द्रस्यासाद्य भवनं प्रविवेश सुनिर्भयः
तं दृष्ट्वा सहसा प्राप्तं शक्रः शय्यातलेऽलुठत्
दानवः शक्रशयने तस्मिन्नुपविवेश ह
अथ देवाः समाजग्मुर्भयाद्द्रष्टुं सुरद्विषम् 4.107.
वासुदेवोऽपि तत्रागात्तं द्रष्टुं देवकंटकम्
धन्योऽहं कृतकृत्योहं यस्य मे गरुडध्वजः
ततः करे समालंब्य शयनाभ्याशमानयत्
ततः कृष्णस्तु सहसा गृह्य दोर्भ्यां शनैः शनैः ममार दानवेन्द्रोऽसौ बलाद्भग्नास्थिपञ्जरः
निर्जगाम ततः शक्रः शय्यामूलादवाक्छिराः
एतद्दृष्टं मया शक्र वसंत्या सुरसद्मनि
ततः कुतूहलपरो देवराट् तां तपस्विनीम्
बभूवुरेते चरितमेतेषां वेद्मि तेन वै
अहो सर्वव्रतानां तु ह्युपोषितमथाद्भुतम् 4.107.
एवमुक्ता ततस्तेन देवेन्द्रेण तपस्विनीं
मासर्क्षे ह्यच्युतो देवः प्रतिमासं सुरेश्वर
तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे
स्वर्गेन्द्रविभवैश्वर्यं संततिं याति चाच्युतिम्
एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया यथावत्कथितं देव पृच्छतस्त्रिदशेश्वर
धर्मार्थकाममोक्षाश्च वाञ्छिता विबुधाधिप
तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती
तस्मात्पार्थ प्रयत्नेन प्रतिमासं समाहितः
ये सांभरायणिकथाचरितव्रतेस्मिन्वर्षाणि सप्त विधिना सुधियो नयंति
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ण युधिष्ठिरसंवादे सांभरायणीव्रतवर्णनं नाम सप्ताधिकशततमोऽध्यायः
नक्षत्रपुरुषव्रतवर्णनम् कर्मणा जायते केन तन्ममाख्यातुमर्हसि
सुरूपाणां सुगात्राणां सुवेषाणां तथैव च
समस्तैः शोभनैरंगैर्नराः केचिद्यदूत्तम
नराणां योषितां चैव समस्ताङ्गः सुरूपता
लावण्यगतिवाक्यानि सति रूपे महामते
वाक्यलावण्यसंस्कारविलासललिता गतिः