तस्मात्सर्वप्रयत्नेन मासनक्षत्रपूजनैः
नारी तपोधना भूत्वा प्रख्याता सांभरायणी
कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः
पूर्वेन्द्रात्परतः पूर्वे ये बभूवुः सुरेश्वराः
एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः 4.107.
नाहं चिरंतनान्वेद्मि देवराज सुरेश्वरान्
ततः पप्रच्छ देवेन्द्रः कोस्माभिर्मुनिपुंगवः
बृहस्पतिश्चिरं ध्यात्वा ततः प्राह शचीपतिम्
इत्युक्तस्तेन देवेन्द्रः कौतूहलसमन्वितः
सा तौ दृष्ट्वा समायांतौ देवराजबृहस्पती
यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम्
यदि कर्तुं मया शक्यं तत्करिष्ये विमृश्य च
यच्च कार्यं महाभागे पृष्टं तत्कथयस्व नः
यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि वै
तस्मात्पूर्वतरो यस्य तस्यापि प्रथमश्च यः ।। 4.107.
तेषां पूर्वतरा ये च वेद्मि तानखिलानहम्
मन्वंतराण्यनेकानि सृष्टीश्च त्रिदिवौकसाम्
एवमुक्त्वा ततस्ताभ्यां सुहृष्टा सांभरायणी
स्वायंभुवे यस्तु मनौ मनौ स्वारोचिषे च यः
ये बभूवुर्हि देवेन्द्रास्तस्य तस्य तपस्विनी
कथयामास चाश्चर्यं तच्चापि कथयामि ते
शंकुकर्णस्तदा दैत्यो बभूवात्यंतदुर्जयः इन्द्रस्यासाद्य भवनं प्रविवेश सुनिर्भयः
तं दृष्ट्वा सहसा प्राप्तं शक्रः शय्यातलेऽलुठत्
दानवः शक्रशयने तस्मिन्नुपविवेश ह
अथ देवाः समाजग्मुर्भयाद्द्रष्टुं सुरद्विषम् 4.107.
वासुदेवोऽपि तत्रागात्तं द्रष्टुं देवकंटकम्
धन्योऽहं कृतकृत्योहं यस्य मे गरुडध्वजः
ततः करे समालंब्य शयनाभ्याशमानयत्
ततः कृष्णस्तु सहसा गृह्य दोर्भ्यां शनैः शनैः ममार दानवेन्द्रोऽसौ बलाद्भग्नास्थिपञ्जरः
निर्जगाम ततः शक्रः शय्यामूलादवाक्छिराः