तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः
अनंतव्रतमाहात्म्यादासाद्य तनयं च तम्
एवमेतत्समाख्यातमनंताख्यं व्रतं तव
यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः
ऐश्वर्यमप्रतिहतं परमं विवेकं पुत्रानमित्रहृदयार्तिकरान्बहूंश्च
सांभरायणीव्रतवर्णनम् यथा मनोरथैः स्वैः स्वैर्नानादुःखं भवेन्नृणाम्
यथा मनोरथैर्लब्धैर्न स्याद्दुःखभयं नृणाम्
अभीष्टादन्यतो वापि यदाघेन विनिष्कृतिम् तन्ममाचक्ष्व भगवन्येन नाभ्येति विच्युतिम्
श्रीकृष्ण उवाच सत्यमेतन्महाभाग दुःखं प्राप्नोत्यसंशयः
ऐश्वर्योदयचित्तस्य बंधुवर्गसुखस्य च
स्वर्गादेर्जायते सम्यगुपवासवतां सताम्
तन्नाम्ना चाच्युतं तेषु सम्यक्संपूजयेन्नृप
आदितः कृत्तिकां कृत्वा कार्त्तिके नृपसत्तम
निवेदयेत्फाल्गुनादि संयावं च ततः परम्
तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बुधः 4.107.
सम्यक्संपूज्य राजेन्द्र तमेव पुरुषोत्तमम्
नमोनमस्तेऽच्युत मे क्षयोस्तु पापस्य वृद्धिं समुपैतु पुण्यम्
यथाच्युतस्त्वं परतः परस्मात्स ब्रह्मभूतः परतः परात्मा
अच्युतानंत गोविन्द प्रसीद यदभीप्सितम्
एवमेवं समभ्यर्च्य प्रार्थयित्वा तथा शिवम्
ततः संवत्सरस्यांते सुखसुप्तोत्थितेऽच्युते
शक्तितो दक्षिणां दद्यादच्युतः प्रीयतामिति
कार्या चैवाच्युतस्यार्चा शक्त्या स्वर्णमयी नृप
महासती रौप्यमयी समानार्हा सदेवता
मंत्रेणानेन राजेन्द्र प्रणिपत्य विधानतः 4.107.
तदेवहेलया दद्यात्सहिरण्याश्वसंयुतम्
एकां वा शक्तितो दद्याद्भक्त्या तुष्यति केशवः
छत्रोपानद्युगैः सार्धमेवं दत्त्वा विसर्जयेत्
श्रिया च सह विष्णुं च पूजयेद्भूषयेत्प्रभुम्
कृतेनानेन राजेन्द्र च्युतिं नाप्नोति मानवः यद्वाभिमतमन्यच्च ततो न च्यवते नरः