सोमो नक्षत्रराजश्च मासः संवत्सरं तथा
एवं संपूज्य विधिवद्देवदेवं जनार्दनम्
कर्णांगुलैः पवित्रैश्च शांतं दांतं जितेन्द्रियम्
तस्मै देयं समस्तं तदनन्तः प्रीयतामिति
अनेन विधिना पार्थ व्रतं चैतत्समाप्यते
पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः
एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम्
तत्कुरुष्वैव देवि त्वं व्रतं शीलधने परम् 4.106.
चकारैतद्व्रतवरं सा विष्ण्वाहितमानसा
पुत्रार्थिन्यास्ततस्तस्माद्व्रतेनानेन सुव्रत
तस्य वै जातमात्रस्य प्रववौ चानिलः शुभम्
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च
धर्मे मनः समस्तस्य पार्थ लोकस्य चाभवत्
कृतवीर्यसुतत्वाच्च कार्तवीर्यो बभूव सः आराधितोऽतिमहता तपसा पार्थ भूभृता
तस्य तुष्टो जगन्नाथश्चक्रवर्तित्वमुत्तमम् स वव्रे च वधो देव मम त्वत्तो भवेदिति
परं तु स्मरणं ज्ञानं भीतानामार्तिनाशनम्
तमाह देवदेवेशः पुण्डरीकनिभेक्षणः
यश्च प्रभाते रात्रौ च त्वां नरः कीर्तयिष्यति तिलप्रस्थप्रदानस्य नरः पुण्यमवाप्स्यति ।। 4.106.
अनष्टद्रव्यता चैव तव नामानुकीर्तने
स चापि वरमासाद्य प्रसन्नाद्गरुडध्वजात्
तेनेष्टं विविधैर्यज्ञैः समाप्तवरदक्षिणैः
अनंतव्रतमाहात्म्यादासाद्य तनयं च तम्
एवमेतत्समाख्यातमनंताख्यं व्रतं तव
यश्चैतच्छृणुयाज्जन्म कार्तवीर्यस्य मानवः
ऐश्वर्यमप्रतिहतं परमं विवेकं पुत्रानमित्रहृदयार्तिकरान्बहूंश्च
सांभरायणीव्रतवर्णनम् यथा मनोरथैः स्वैः स्वैर्नानादुःखं भवेन्नृणाम्
यथा मनोरथैर्लब्धैर्न स्याद्दुःखभयं नृणाम्
अभीष्टादन्यतो वापि यदाघेन विनिष्कृतिम् तन्ममाचक्ष्व भगवन्येन नाभ्येति विच्युतिम्
श्रीकृष्ण उवाच सत्यमेतन्महाभाग दुःखं प्राप्नोत्यसंशयः
ऐश्वर्योदयचित्तस्य बंधुवर्गसुखस्य च