अनंतः सर्वकामाना मिति चोच्चारयेत्पुनः
माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत्
चतुर्ष्वेतेषु गोमूत्रं प्राशयेन्नृपनंदिनि
देवस्य दक्षिणं स्कन्धं चैत्रे चित्रासु पूजयेत् विप्रे प्रवाचके दद्याद्यवान्मासचतुष्टयम्
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम्
ज्येष्ठासु कटिपूजां च ज्येष्ठमासि शुभव्रते
पादद्वयं तु श्रवणे श्रावणे मासि पूजयेत्
श्रावणादिषु मासेषु प्राशनं दानमेव च 4.106.
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत्
कुर्यात्समाहितमनाः स्नानं प्राशनमर्चनम्
यस्मिन्यस्मिन्दिने पूजा तत्रतत्र तदा दिने
घृतेनानंतमुद्दिश्य पूर्वं मासचतुष्टयम्
क्षीरेण श्रावणादौ च होमो मासचतुष्टयम्
एवं द्वादशभिर्मासैः पारणात्रितयं शुभे
राजतं मुसलं चैव हलं पार्श्वेषु विन्यसेत्
ताम्रपीठोपरि हरेर्मन्त्रैरेभिर्यथाक्रमम्
शेषाय जानुयुगलं कामायेति कटिं नमः
संकर्षणायेत्युदरं भुजं सर्वासुधारिणे 4.106.
हलं च मुसलं चैव स्वनाम्ना पूजयेद्बुधः
छत्रोपानत्सुसंयुक्तं स्रग्दामालंकृतं तथा
सोमो नक्षत्रराजश्च मासः संवत्सरं तथा
एवं संपूज्य विधिवद्देवदेवं जनार्दनम्
कर्णांगुलैः पवित्रैश्च शांतं दांतं जितेन्द्रियम्
तस्मै देयं समस्तं तदनन्तः प्रीयतामिति
अनेन विधिना पार्थ व्रतं चैतत्समाप्यते
पुत्रार्थिभिर्वित्तकामैर्भृत्यदारानभीप्सुभिः
एतद्व्रतं महाभागे पुण्यं स्वस्त्ययनप्रदम्
तत्कुरुष्वैव देवि त्वं व्रतं शीलधने परम् 4.106.
चकारैतद्व्रतवरं सा विष्ण्वाहितमानसा
पुत्रार्थिन्यास्ततस्तस्माद्व्रतेनानेन सुव्रत