शत्रुपक्षक्षयकरं प्राप्य खङ्गं नृपोत्तमः
हत्वा दस्यून्षष्टिशतांस्तेषां लब्ध्वा महद्धनम् 3.2.26.
पौर्णमास्यां विधानेन मासिमासि नृपोत्तमः
तद्व्रतस्य प्रभावेन लक्षग्रामाधिपोऽभवत्
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये चन्द्रचूडोद्धारोनाम षडूविंशोऽध्यायः
विचरंतो वने नित्यं निषादाः काष्ठवाहिनः
वनात्काष्ठानि विक्रेतुं पुरीं काशीं ययुः क्वचित्
ददर्श विपुलैश्वर्यं सेवितं च द्विजैर्हरिम्
यो दृष्टोऽकिंचनो विप्रो दृश्यतेऽद्य महाधनः
ऐश्वर्यं ते कुतो ब्रह्मन्दुर्गतिस्ते कुतो गता
न किंचित्सुखमाप्नोति विना तस्यानुकंपया
विधानं सोपचारं च ह्युपदेष्टुं त्वमर्हसि
साधूनां समचित्तानामुपकारवतां सताम्
इति पृष्टो विधिं वक्तुमितिहासमथाब्रवीत्
ममाश्रमं समायातः सत्यनारायणार्चने 3.2.27.
मया यत्कथितंतस्मै तन्निबोध निषादज
गोधूमचूर्णं पादार्धं सेटकाद्यैः सुचूर्णकम्
पंचामृतेन संस्नाप्य चन्दनाद्यैश्च पूजयेत्
उच्चावचः फलैः पुष्पैर्धूपदीपैमर्नोरमैः
न तुष्येद्द्रव्यसंभारैर्भक्त्या केवलया यथा
दुर्योधनकृतां त्यत्क्वा राजपूजां जनार्दनः
सुदाम्नस्तंडुलकणाञ्जग्ध्वा मानुष्यदुर्लभाः
गोपो गृध्रो वणिग्व्याधो हनुमान्सविभीषणः
नारायणान्तिकं प्राप्य मोदंतेऽद्यापि यद्वशाः
कृतवान्स धनं लब्ध्वा मोदते नर्मदातटे 3.2.27.
इह लोके सुखं प्राप्य चान्ते सान्निध्यमाप्नुयाः
स गत्वा स्वगणानाह माहात्म्यं हरिसेवने
सत्यनारायणे पूजां काष्ठलब्धेन यावता
इति निश्चित्य मनसा काष्ठं विक्रीय लेभिरे
मुदा स्त्रीभ्यस्समाचख्युर्वृत्तांतं सर्वमादितः