नृणां स्त्रीणां च सर्वेषां नान्यच्छोकस्य कारणम्
अपुत्रता महादुःखमतिदुःखं कुपुत्रता
धन्यास्ते ये सुतं प्राप्ताः सर्वदुःखविवर्जितम् । । शक्तं प्रशांतं बलिनं परां निर्वृतिमागतम्
स्वकर्माभिरतं नित्यं देवद्विजपरायणम्
विनिर्जितारिसर्वस्वं मनोहृदयनन्दनम्
मित्रस्वजनसन्मानलब्धं निर्वाणमुत्तमम्
सोऽहमेवंविधं श्रोतुं कर्मेच्छामि महामते
दुःखं प्रयात्युपशमं तनयान्नेह केनचित्
अत्रापि श्रूयतां वृत्तं यत्पूर्वमभवन्मुने 4.106.
कृतवीर्यो महीपालो हैहयो नाम वै पुरा
पत्नी सहस्रप्रवरा महिषी शीलमण्डना
गुणवत्पुत्रलाभाय कृतासनपरिग्रहम्
कथयामास परमं नाम्नानन्तव्रतं महत् तस्याः सुपुत्रलाभाय राजपुत्र्यास्तपस्विनी
स तं समाराध्य विभुं समाप्नोति जनार्दनात्
तस्मिन्संप्राश्य गोमूत्रं स्नातो नियतमानसः वामपादमनंतस्य पूजयेद्वरवर्णिनि
अनंतः सर्वकामानामनंतं भगवान्फलम्
अनंतपुण्योपचयमनन्तं तु महाव्रतम्
इत्युच्चार्याभिपूज्यैनं यथावद्विधिना नरः 4.106.
विप्राय दक्षिणां दद्यादनंतः प्रीयतामिति
ततश्च पौषे पुष्यर्क्षे तथैव भगवत्कटिम्
अनंतः सर्वकामाना मिति चोच्चारयेत्पुनः
माघे मघासु तद्वच्च बाहुं देवस्य पूजयेत्
चतुर्ष्वेतेषु गोमूत्रं प्राशयेन्नृपनंदिनि
देवस्य दक्षिणं स्कन्धं चैत्रे चित्रासु पूजयेत् विप्रे प्रवाचके दद्याद्यवान्मासचतुष्टयम्
वैशाखे च विशाखासु बाहुं सम्पूज्य दक्षिणम्
ज्येष्ठासु कटिपूजां च ज्येष्ठमासि शुभव्रते
पादद्वयं तु श्रवणे श्रावणे मासि पूजयेत्
श्रावणादिषु मासेषु प्राशनं दानमेव च 4.106.
गुह्यं प्रोष्ठपदायोगे मासि भाद्रपदेऽर्चयेत्
कुर्यात्समाहितमनाः स्नानं प्राशनमर्चनम्