विशेषश्चात्र कथितश्चन्द्रं कृत्वा हिरण्मयम्
स्तुवन्नेवं विधानेन पारणेऽभ्यर्चयेत्प्रभुम्
इहैव स्वस्थतां प्राप्य मरणे स्मरणं ततः
ततो मानुष्यमासाद्य निरातंको गतज्वरः
श्रीशर्वरी मधुनि हा भगवाञ्छशांकः संकल्प्य चन्दनतिलाक्षतपुष्पमिश्रम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पूर्णमनोरथव्रतं नाम चतुरधिकशततमोऽध्यायः
विशोकपूर्णिमाव्रतवर्णनम् यामुपोष्य नराः शोकं नाप्नुवंति कदाचन
फाल्गुनामलपक्षस्य पौर्णमास्यां नरोत्तम मृत्प्राशनं ततः कृत्वा कृत्वा च स्थंडिलं मृदा
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नाम नामतः
यथा विशोकां धरणे कृतवांस्त्वां जनार्दनः
यथा समस्तभूतानामाधारत्त्वं व्यवस्थिता
ध्यानमात्रे यथा विष्णोः स्वास्थ्यं जानासि मेदिनि
एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च
अनेनैव प्रकारेण चत्वारः फाल्गुनादयः
आषाढादिषु मासेषु तद्वत्स्नानं मृदंबुना
चतुर्ष्वन्येषु चैवोक्तं कार्तिकादिषु पारणम् 4.105.
विशेषपूजा दानं च तथा जागरणं निशि
प्रथमे धरणी नाम तुभ्यं मासचतुष्टयम्
पारणेपारणे पार्थ युग्मानेवार्च्चयेद्द्विजान् ।। धरणीं देव देवं च तत्तत्स्थानेन केशवम्
वस्त्राभावे च सूत्रेण पूजयेद्धरणीं तथा ।। घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः । ।.
एवं संवत्सरस्यांते गौः सवत्सा द्विजातये
पातालसंस्थया देव्या चीर्णमेतन्महाव्रतम् । । धरण्या केशव प्रीत्यै ततः प्राप्ता समुन्नतिः
देवेन चोक्ता धरणी वराहवपुषा पुरा
व्रतेनानेन कल्याणि त्वयाहं परितोषितः
व्रतमेतदुपाश्रित्य पारणं च यथाविधि । । सर्वबाधाविनिर्मुक्तो जन्मजन्मांतराण्यपि 4.105.
यथा त्वमेव वसुधे संप्राप्ता निर्वृतेः पदम् । । तथा स परमँल्लोके सुखं प्राप्स्यति मानवः
एवमेतन्महापुण्यं सर्वपापप्रशांतिदम् । । विशोकाख्यं व्रतवरं तत्कुरुष्व महाव्रतम्
सम्यग्विशोककरणी नृपपूर्णिमा ते ख्याता मया मनुमहेन्द्रसमानकीर्ते
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकपूर्णिमाव्रतं नाम पञ्चाधिकशततमोऽध्यायः
अनन्तव्रतवर्णनम् ।। युधिष्ठिर उवाच । । प्रकारैर्बहुभिः कृष्ण यान्यानिच्छति चेतसा