चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम्
सूर्यांशुतप्तं तद्वच्च जलं कायविशोधनम् कारयेच्चैव देवस्य पारणेपारणे गते
जनार्दनं सपत्नीकमर्चयेत्प्रथमं ततः
प्रतिमासं तु नामानि कृष्णस्यैतानि भारत उच्चारयन्नरो याति यथालोकं यथासुखम्
ततो विप्राय वै दद्यादुदकुंभं सदक्षिणम्
यद्वै मासगतं नाम प्रीयतामिति कीर्तयेत्
माधवं माघमासे तु गोविन्दमपि फाल्गुने
ज्येष्ठे त्रिविक्रमो ज्ञेयस्तथाषाढे च वामनः
रामो भाद्रपदे मासि गीयते पुण्यकांक्षिभिः 4.104.
कार्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् यदि दातुं न शक्नोति दद्याच्चैवैकहेलया
विशेषश्चात्र कथितश्चन्द्रं कृत्वा हिरण्मयम्
स्तुवन्नेवं विधानेन पारणेऽभ्यर्चयेत्प्रभुम्
इहैव स्वस्थतां प्राप्य मरणे स्मरणं ततः
ततो मानुष्यमासाद्य निरातंको गतज्वरः
श्रीशर्वरी मधुनि हा भगवाञ्छशांकः संकल्प्य चन्दनतिलाक्षतपुष्पमिश्रम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पूर्णमनोरथव्रतं नाम चतुरधिकशततमोऽध्यायः
विशोकपूर्णिमाव्रतवर्णनम् यामुपोष्य नराः शोकं नाप्नुवंति कदाचन
फाल्गुनामलपक्षस्य पौर्णमास्यां नरोत्तम मृत्प्राशनं ततः कृत्वा कृत्वा च स्थंडिलं मृदा
पुष्पैः पत्रैस्तथाभ्यर्च्य भूधरं नाम नामतः
यथा विशोकां धरणे कृतवांस्त्वां जनार्दनः
यथा समस्तभूतानामाधारत्त्वं व्यवस्थिता
ध्यानमात्रे यथा विष्णोः स्वास्थ्यं जानासि मेदिनि
एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च
अनेनैव प्रकारेण चत्वारः फाल्गुनादयः
आषाढादिषु मासेषु तद्वत्स्नानं मृदंबुना
चतुर्ष्वन्येषु चैवोक्तं कार्तिकादिषु पारणम् 4.105.
विशेषपूजा दानं च तथा जागरणं निशि
प्रथमे धरणी नाम तुभ्यं मासचतुष्टयम्
पारणेपारणे पार्थ युग्मानेवार्च्चयेद्द्विजान् ।। धरणीं देव देवं च तत्तत्स्थानेन केशवम्
वस्त्राभावे च सूत्रेण पूजयेद्धरणीं तथा ।। घृताभावे तथा क्षीरं शस्तं वा सलिलं हरेः । ।.